________________
चूर्णिभाष्यावचूरिः उ०८ सू० ११
साधोनिग्रंन्थ्या सार्द्ध विहरादिनिषेधः १९३
RAMANA
छाया-रात्रौ च पिकाले वा स्त्रीमध्यगतो मुनिः।
प्रमाणातिरेकेण, कथातो दोषमावहेत् ॥१॥ अवचूरि:-'राओ य' इत्यादि । 'राओ य' रात्रौ च विकाले वा पूर्वप्रदर्शितरूपे दिवसावसाने रावसाने वा स्त्रीमध्यगतः स्त्रीसमुदायस्य मध्ये स्थितः एवं स्त्रीसंसक्तः स्त्रीपरिवृतो मुनिः स्त्रीभ्यः पुरुषसाक्षिणमन्तरेण केवलं स्त्रीभ्यः 'पमाणमइरेगेण' प्रमाणातिरेकेण स्त्रीणां धर्मविषयकविवादशङ्कादिप्रसंगे सति प्रमाण-एकद्वित्रिचतुःपञ्चप्रश्नोत्तररूपमतिक्रम्य षष्ठादिप्रश्नोत्तररूपां कथां कथयति, 'कहाओ' कथातः एतादृशकथाकरणतः दोषम्-आज्ञाभङ्गादिरूपं दूषणं आवहेत् प्राप्नुयात् । अत्र कश्चित् शङ्कां करोति-साधूनां मध्ये एकाकिसाधुसमीपे स्त्रीभिर्न गन्तव्यमिति दोषश्रवणात् , स्त्रीमध्ये कथाकरणस्य शास्त्रे निषेधात् स्त्रियो दिवसेऽपि न गच्छन्ति तर्हि रात्रौ विकाले वा तासा गमनं कथं संभवति कथमत्रास्य सूत्रस्यावसरः ? तत्र कथ्यते-यदि स्त्रीणां परस्परं धर्मविषये काचित् शङ्का कश्चिद् विवादो वा समुत्तिष्ठेत् तादृशप्रसङ्गे स्त्रीणां रात्रादावपि साधुसमीपे गमनसंभवः । एतादृशप्रसंगे तत्र कञ्चित् पुरुषं साक्षिणं कृत्वा दूरत एव एक-द्वित्रि-चतुः-पञ्च-समाधानस्तासां शङ्कां विवादं च निराकत्तुं कल्पते, तदधिकं तु नैव कल्पते, अत एव सूत्रे 'अपरिमाणयाए' इत्युक्तम् , अनेन एकद्वचादिपरिमाणतः कथने न कश्चिदोष इति व्यज्यते, किन्तु स्त्रीमध्यगतादिविशेषणविशिष्टो भूत्वा तु किं दिवा किं रात्रौ कि विकाले वा कि प्रमाणतः किमप्रमाणतो वा कथञ्चिदपि कथां कर्तुं साधोर्नैव कल्पते इति सूत्रनिष्कर्षः । एवं करणे स्त्रीणां पितृभ्रातृपुत्रादिस्वजनानां मनसि शङ्का समुत्पद्यते यत् निर्लज्जो लम्पटोऽसौ साधुर्दश्यते यः स्त्रीणां मध्ये स्थित्वा रात्रौ विकाले चापि अविचार्यैव चिरकालं कथां कथयति, इति कृत्वा ते कुम्येरन ततः साधु ताडयेत् राजपुरुपैाहयेद्वा तेन संयमविराधना आत्मविराधना धर्मस्यावहेलना च भवितुमर्हति । इत्यादिबहुदोषप्रसङ्गात् साधुः स्त्रीमध्यगतो रात्रौ विकाले वा प्रमाणमतिक्रम्य कथां न कुर्यात् न कारयेत् कुर्वन्तमन्यं वा नानुमोदयेदिति भाष्यगाथार्थः ॥
सूत्रम्-जे भिक्खू सगणिच्चियाए वा परगणिच्चियाए वा णिग्गं: थीए सद्धिं गामाणुगामं दूइज्जमाणे पुरओ गच्छमाणे पिट्ठओ रीयमाणे ओहयमणसंकप्पे चिंतासोयसागरसंपविठू करयलपल्हत्थमुहे अट्टज्झाणोवगए विहार वा करेइ सज्झायं वा करेइ, असणं वा पाणं वा खाइमं वा साइमं वा आहारेइ, उच्चारं वा पासवणंवा परिद्ववेइ, अण्णयरंवा अणारिय निठुरं मेहुणं असमणपाओग्गं कहं कहेइ कहेंतं वा साइज्जइ ।।सू०११॥
२५