________________
निशीथसत्रे १९२ . ' 'महागिहसि वा' महागृहे वा, एतेषु अष्टसूत्रकथितेपु स्थानेषु यः कश्चिद् भिक्षुर्विहार-स्वाध्यायाssहारो-चारादिपरिष्ठापनाऽनार्यादिकथाकथनं करोति कुर्वन्तं वा स्वदते स प्रायश्चिचभागी भवति ॥९॥
अत्राह भाष्यकारः-- भाष्यम्-उज्जाणाओ समारम्भ, गोणसालंतसंठिओ।
विहाराई करे भिक्खू , आणाभंगाइ पावई ॥ छाया- उद्यानतः समारभ्य गोशालान्तसंस्थितः ।
विहारादि कुर्याद भिक्षुः आशाभङ्गादि प्राप्नोति ॥ अवचूरि:-'उज्जाणाओ' इत्यादि । उद्यानतः समारम्य उद्यानमादौ कृत्वा गोशालापर्यन्तस्थानेषु संस्थितः भिक्षुः श्रमणः एकया स्त्रिया सार्द्ध विहारादिकं विहारमाहारमुच्चारादिपरिष्ठापनमनार्यादिकथाकथनं च कुर्यात् कुर्वन्तमनुमोदयेत् वा स आज्ञाभङ्गादिकान् आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादिदोषान् प्राप्नोति तस्मात्कारणात् श्रमणः आगन्त्रागारादिषु एकाकिन्या स्त्रिया साई विहारादिकं न कुर्यात् ॥ सू० ९ ॥
सूत्रम्-जे भिक्खू राओ वा वियाले वा इत्थीमज्झगए इत्थीसंसत्ते इत्थीपखुिडे अपरिमाणयाए कहं कहेइ कहेंतं वा साइज्जइ ॥ सू० १०॥
छाया-यो भिक्षुः रात्रौ वा विकाले वा स्त्रीमध्यगतः स्त्रीसंसकः स्त्रीपरिवृतोऽपरिमाणतया कथां कथयति कथयन्तं वा स्वदते ॥ सू० १० ॥ ___ . चूर्णी-जे भिक्खू' इत्यादि । यः कश्चिद् भिक्षुः 'राओ वा' रात्री वा 'वियाले वा. विकाले वा, तत्र विकालः दिवसावसाने रात्रिप्रागभावे, रात्र्यवसाने दिवसप्रागभावे वर्चते, तथा च-रात्रिदिवसयोरन्तरालकालो विकालः, तस्मिन् विकाले वा 'इस्थिमज्झगए' स्त्रीमध्यगतः स्त्रीणां मध्ये स्थितः स्त्रीसमुदाये स्थितः 'इत्थिसंसत्ते' स्त्रीसंसक्तः स्त्रिया संघट्टितः स्त्रिया ऊर्वादिना संस्ष्टष्टः तत्स्पर्शयुक्तः 'इत्थिपरिवुढे' स्त्रीपरिवृतः परि सर्वतः समन्तात् स्त्रीभिः परिवृतः यस्य चतुर्दिक्षु स्त्रिय उपविष्टा भवेयुः स स्त्रीपरिवृत इति कथ्यते, इत्थंभूतः साधुः 'अपरिमाणयाए' अपरिमाणतया परिमाणमतिक्रम्य, परिमाण च, एकद्वित्रिचतुःपञ्चप्रश्नोत्तररूपं भवति तदतिक्रम्य षष्ठं प्रश्नोचरमपरिमाणं भवति, एतादृश्या अपरिमाणतया 'कह' कथां-धर्मकथाम्-प्रश्नोत्तररूपां वा कथा 'कहेई' कथयति 'कहेतं वा साइज्जई' कथयन्तं वा स्वदतेऽनुमोदते, स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:• भाष्यम्-राओ य वियाले वा, इत्थीमज्झगो मुणी। - पमाणमइरेगेण, कहाओ दोसमावहे ॥१॥