________________
१९०
निशीथ
अन्यया कयाचित् सम्बन्धवर्जितया परिचितया अपरिचितया वा सह कथं वसेत् वासं कुर्यात्, नृ कदाचिदपि वसेदिति भावः । गृहिणामप्येष निषिद्धः, उक्तञ्चान्यत्रापि
" मात्रा स्वस्रा दुहित्रा वा, न विविकासनो भवेत् । बलवानिन्द्रियप्रामो, विद्वांसमपि कर्षति ॥ १॥ भा० गा० १ ॥
'सामने ' इत्यादि । 'मुणिस्स' मुनेः सामन्येनापि स्त्रीभिः सार्द्धं संवासो भगवता निषिद्धस्तर्हि किं पुनः 'विहार माइसु' विहारादिपु - आदिपदेन स्वाध्याये आहारे उच्चारादिपरिष्टापने विशेषतोऽनार्यनिष्ठुर मैथुनाश्रमणप्रायोग्यकथासु यत् नाभिः सह वासं कुर्यात्, भिक्षूणा कुत्रापि पुरुषसाक्षिणमन्तरेण स्त्रीभिः सह सामान्यवार्त्तापि न कल्पते इति भावः ॥ भा० गा० २ ॥
'थी कहा' इत्यादि । 'थीसु' स्त्रीषु स्त्रीणां मध्ये काऽपि या धार्मिकी प्रशस्ता वा कथा भवेत् सापि भगवता प्रतिषिद्धा तहि किं पुनर्या अनार्या अप्रशस्ता कथा भवेत् सा स्त्रीणां मध्ये कथ्यते, न काचिदपि कथ्यते इति भावः ॥ भा० गा० ३ ॥
अथैतद्विषये प्रायश्चितं प्रदर्श्यते - 'जो एवं' इत्यादि ।
"
यः कोऽपि श्रमणः एवमाचरति स्त्रोसहवासकथाकथनादिकं करोति स 'आणाभंग' आज्ञाभङ्गं तीर्थकराज्ञाभङ्गदोषम् अनवस्थादोप, मिध्यात्वं, विराधनां, संयमात्मविराधनां प्राप्नोति । तत्र सयमविराधना स्पष्टैव । स्त्रिया सह संवास विहारादिकं वा कुर्वन्तमत्रह्मसेवनशङ्कया साधुं मारयेत् राजपुरुषादिना ग्राहयेद् वा, तेनात्मविराधनाऽवश्यम्भाविनी 'तुम्हा' तस्मात् कारणात् एतान् विहारादिकान् स्त्रिया सह 'विवज्जेज्जा' विवर्जयेत्, भिक्षुर्न कुर्यादिति भावः ॥ भा०गा० ४ ||
एवं प्रथमसूत्रोक्तक्रमेणैव इतोऽये द्वितीयसूत्रादारम्य नवमसूत्रपर्यन्तमष्टावपि सूत्राणि व्याख्येयानि । तेषु विशेषपदानि व्याख्यायन्ते, तथाहि 'जे भिक्खू उज्जाणंसि वा' इत्यादि । 'उज्जाणंसि वा' उद्याने वा, तत्रोद्यानमुपवनं यत्र लोकाः क्रीडार्थ गच्छन्ति 'उज्जाणगिर्हसि वा' उद्यानगृहे वा उद्यानस्थित क्रीडाकरणाय समागतानां पुरुषाणां निवासस्थानम् 'उज्जाण सालंसि वा' उद्यानशालायां वा उपवनस्थितशालायां 'धर्मशाला' इति लोकप्रसिद्धलक्षणायाम् 'निज्जाणंसि वा' निर्याणे वा, निर्याण राज्ञां निर्गमनमार्गः येन मार्गेण राजा निर्गतो भवति, येन राजा गच्छति आगच्छति च तादृशध्यानं, तस्मिन् निर्याणे वा 'निज्जाणगिहंसि वा' निर्याणगृहे वा राजमार्गस्थितगृहे 'निज्जाणसालंसि वा' निर्याणशालायां वा राजमार्गस्थितशालायां विहारदिकं करोति ॥ सू० २ ॥
'जे भिक्खू असि वा' इत्यादि । 'अहंसि वा' अटूटे वा ग्रामादिप्राकारस्याघोभागे 'अट्टालयंसिवा' अट्टालिकायाम् नगरस्य यः प्राकारः तस्यैकदेशे या अट्टालिका तस्यां वा 'चरियंसि वा'