________________
चूर्णिभाष्यावचूरिः उ०८ सू०१-३ साधोरेकाकिन्या स्त्रिया सह विहारादिनिषेधः १८६ करोति 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनादिचतुर्विधमाहारं 'आहारेइ' आहरति करोति'उच्चारं वा पासवणं वा परिहवेइ' उच्चारं वा प्रसवणं वा परिष्ठापयति 'अण्णयरं वा अणारियं निठुरं' अन्यतरां वा काञ्चित् अनार्याम् आर्येण सत्पुरुषेणाचरितुमयोग्याम् निन्दितामित्यर्थः निष्ठुराम् अश्लीलाम् 'मेहुणं' मैथुनी मैथुनसम्बन्धिनीम् 'अस्समणपाओग्गं' भश्रमणप्रायोग्याम् अश्रमणानामसाधुपुरुषाणामुचितां न तु श्रमणानाम् , तादृशीं 'कह' कथां वाक्यप्रबन्धरूपां कामादिविकारोत्पादिकां कथां-राजकथा-देशकथा-भक्तकथा-स्त्रीकथारूपां चतुर्विधामपि विकथां वा 'कहेइ' कथयति 'कहेंतं वा साइज्जई' कथयन्तं वा तादृशीं कथां कुर्वन्तं वा स्वदतेऽनुमोदते । यो हि श्रमणः एकाकी आगन्त्रागाराद्यन्यतमस्थाने एकाकिन्या स्त्रिया सार्द्धम् विहारं स्वाध्यायमाहारं वा करोति कारयति कुर्वन्तं वाऽन्यमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति, तस्मात् कारणात् एकाकी श्रमणः आगन्त्रागारादिषु एकाकिन्या स्त्रिया सार्द्धम् विहारादिकं न कुर्यात् न कारयेत् न वा कुर्वन्तमनुमोदयेदिति भावः ।
अत्राह भाष्यकार:-- भाष्यम-माया भगिणी दुहिया, सद्धि एयाहि नो वसे भिक्खू ।
एगते जइ एवं, किं पुण अन्नाए इत्थीए ॥१॥ सामन्नेण निसिद्धो, थीहिं सद्धिं मुणिस्स संवासो । '' किं पुण विहारमाइस, करेज्ज जं ताहि सह वासं ॥२॥ थीम कहा पडिसिद्धा कावि य जा धम्मिया पसत्था वा। किं पुण अणारिया सा, कहिज्जए थीण मज्झम्मि ॥३॥ जो एवं आथरइ, पावइ सो आणभंगमणवत्थं । '
मिच्छत्त विराहणं च, तम्हा एए विवज्जेज्जा ॥४॥ छाया-माता भगिनी दुहिता, सार्द्धम् एताभिनों वसेद् भिक्षुः।
एकान्ते यद्येवं किं पुनरन्यया स्त्रिया ॥१॥ सामान्येन निषिद्धः स्त्रीभिः सार्द्ध मुनेः संवासः । किं पुनर्विहारादिपु कुर्याद् यत् ताभिः सह वासम् ॥२॥ स्त्रीषु कथा प्रतिषिद्धा काऽडपि च या धार्मिकी प्रशस्ता वा। किं पुनरनार्या सा कथ्यते स्त्रीणां मध्ये ॥३॥ य एवमाचरति, प्राप्नोति स आज्ञाभकमनवस्थाम् ।
मिथ्यात्वं विराधनां च तस्माद् एतान् विवर्जयेतू ॥४॥ अवचूरिः-'माया भागिणी' इत्यादि । माता जन्मदात्री, भगिनी-सहोदरा दुहिता पत्री एताभिरपि सार्द्ध भिक्षुः श्रमणः एकान्ते नो वसेत् एतामिरपि सह एकान्तवासं न कुर्यात् , ययेवं तर्हि