________________
|| अष्टमोदेशकः ॥
`गतः सप्तमो देशकः, अथाष्ठमः प्रारम्यते, सप्तमोदेशकस्यान्तिमसूत्रेण सहास्याष्टमोद्देशकादिसूत्रस्य कः सम्बन्धः ? इति सम्बन्धप्रतिपादनायाह भाष्यकारः -- 'पुत्रं खलु' इत्यादि । भाष्यम् – पुच्वं खलु आगारा, कहिया ते कहिं कचिहा होति । आगंतागाराइसु, विहार-सज्झाय - भिईओ ॥१॥
छाया - पूर्व खलु धाकाराः कथितास्ते कुत्र कतिविधा भवन्ति । आन्त्रागारादिषु विहार- स्वाध्याय-प्रभृतयः ॥ २ ॥
अवचूरिः -- पूर्व सप्तमोद्देशकस्यान्तिमसूत्रे आकाराः कथिताः, ते च केषु केषु स्थानेषु भवन्तीति प्रश्ने कथयति - ते आकारा आगन्त्रागारादिषु भवन्ति ते कतिविधा: । इति प्रश्ने कथयत विहार- स्वाध्याय-प्रभृतयो भवन्ति । सप्तमोद्देशकस्यान्ते आकाराः कथितास्तेषां स्थानानि तत्प्रकाराणि चास्मिन् अष्टमोदेशके प्रदर्शयिष्यन्ते एष एव सम्बन्धः सप्तमाष्टमोद्देशकगतपूर्वापरसूत्रयोरिति, अनेन सम्बन्धेनायातस्यास्याष्टमोद्देशकस्येदमादिसूत्रम् - 'जे भिक्खू आगंतागारे वा' इत्यादि ।
सूत्रम् — जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा एगो एगित्थीए सद्धि विहारं वा करेइ सज्झायं वा करेइ असणं वा पाणं वा खाइमं वा साइमंवा आहा रेह, उच्चारं वा पासवर्णं वा परिठ्ठवेइ, अण्णयरं वा अणारियं निठुरं मेहुणं अस्समणपाओग्गं कह कहे कहतं वा साइज्जइ ॥ सू० १ ॥
छाया -- यो भिक्षुरागन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा परिव्राजकावसथेषु वा एक एकया स्त्रिया सार्द्ध विहारं वा करोति, स्वाध्यायं वा करोति, अशनं वा पानं वा खाद्यं वा स्वाद्यं वा आहरति, उच्चारं वा प्रस्रवणं वा परिष्ठापयति, अन्यन्तर्रा वा अनार्या निष्ठुरां मैथुनीम भ्रमणप्रयोग्या कथां कथयति कययन्तं वा स्वदते ॥ ० १ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । यः कश्चिद भिक्षुः 'आगंतागारेसु वा आरामागारेसु वा 'गाeाइकुलेसु वा परियावसहेसु वा एषामर्थः सप्तमोदेशके गतः । एषु स्थानेषु 'एगो एगित्थीए सद्धि' एकः स्वयमेकाकी सन् एकया स्त्रिया सार्द्धम् 'विहारं वा करेइ' विहारं वा करोति एकः साधुरेकाकिन्या स्त्रिया श्राविकया श्रमण्या वा सार्द्धम् विहारं गमनागमनं ग्रामाद् ग्रामान्तरगमनं वा करोति 'सज्झायं वा करेइ' स्वाध्यायं वा करोति, तत्र स्वाध्यायः सूत्रार्थयोरध्ययनं