________________
चूर्णिभाष्यावचूरिः उ०७ सू०९१-९३.
मातग्रामप्रकरणम् १८७ प्रतीच्छति स्त्रीभ्यः गृह्णीयात् 'पडिच्छतं वा साइज्जई' प्रतीच्छन्तं गृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ९१ ।। '
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अण्णयरेणं इंदिएणं आकारं करेइ करेंतं वा साइज्जइ ।। सू० ९२॥
छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिशया अन्यतरेण इन्द्रियेणाकारं करोति कुर्वन्तं वा स्वदते ॥सू० ९२॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अण्णयरेणं इंदिएणं' अन्यतरेण केनापि इन्द्रियेण पुरुषस्य स्त्रियो वा इन्द्रियाकारेण स्तनमुखाधङ्गोपाङ्गरूपं किश्चिदपि इन्द्रियमाश्रित्येत्यर्थ , स्तनमुखादीनामिति भावः 'आकारं करेई' आकारं करोति, स्त्रियोऽने हस्तादिना चित्रकर्मणा वा एता दृशमाकारं रचयति चित्रयति वा येन स्त्रियो मनसि रागः समुत्पद्येत, शरीरं रोमाञ्चितं कम्पायमानं च भवेत् , 'मुखाद्याकारावलोकनेन द्रवीभूता सती स्त्री माममिलषिष्यति' इति बुद्ध्या स्त्रियोऽग्रे आकारं कुर्यात् चित्रयेद्वा उपलक्षणात् हस्तनेत्रभूप्रभृतिभिर्विकारजनका चेष्टां वा कुर्यात् 'करेंतं वा साइज्जइ' कुर्वन्तमन्यं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥१२॥
सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं ।। सू० ९३ ॥
॥सत्तमो उदेसो समत्ते ॥ ७॥ . छाया-तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकम् ॥१३॥
॥ सप्तमोद्देशकः समाप्तः ॥ ७॥ चूर्णी-तं सेवमाणे इत्यादि । 'त सेवमाणे' तत् सेवमानः तत् उद्देशकस्यादौ तृण- . मालिकादिकरणादारभ्य उद्देशकान्ते आकारपर्यन्तं यानि प्रायश्चित्तस्थानानि प्रोक्तानि तन्मध्यात् यत् किमप्येक प्रायश्चित्तस्थानं सेवमानः प्रतिसेवनं कुर्वाणः 'आवज्जई' आपद्यते प्राप्नोति 'चाउम्मासिय' चातुर्मासिकम् 'परिहारहाणं' परिहारस्थानं प्रायश्चित्तस्थानम् 'अणुग्याइयं' अनुद्घातिकं गुरुकम् । अयंभावः यः कोऽपि भिक्षुः एतेषु सप्तमोद्देशकोक्तप्रायश्चित्तस्थानेषु मध्यात् यत् किमपि एकम्-अनेक सर्व वा प्रायश्चित्तस्थानं प्रतिसेवते स गुरुचातुर्मासिकं प्रायश्चित्तं प्राप्नोतीति भावः ॥९३॥ इति श्री-विश्वविख्यात--जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपधनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य"
चूर्णिभाष्यावचूरिरूपायां व्याख्यायां सप्तमोद्देशकः समाप्तः ॥७॥