SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः श्रमणः 'माउग्गामस्स' मातृग्रामस्य स्त्रियाः 'मेहुणवडियाए' मैथुनप्रतिज्ञया मैथुनवाञ्छया 'हस्थकम्मं' हस्तकर्महस्तेन संपाद्यमानं कर्म किया व्यापारः, तत् करोति स्व॒य॑म् तथा 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते । यो हि मैथुनेच्छया हस्तकर्म करोति तमनुमोदयति स प्रायश्चित्तमाप्नोति तथा तस्याज्ञाभङ्गादिका टोपा भवन्ति । यस्मात् हस्तकर्मकरणेऽनुमोदने चैते दोषा भवन्ति तस्मात्कारणात् स्वय श्रमणो हस्तकर्म न कुर्यात् न' वा हस्तकर्म कारयेत् कुर्वन्तमनुमोदयेत्, चतुर्थमहाव्रतविराधनाया अवश्यम्भावादिति ॥सू० २ ॥ १६० सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं कट्ठेण वा किलिचेण वा अंगुलियाए वा सलागाए वा संचालेइ संचालें वा साइज्जइ ॥ सू० ३ ॥ छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अङ्गादानं काण्ठेन वा किलिञ्चेन वा शलाकया वा संचालयति संचालयन्तं वा स्वदते ॥ सू० ३ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'माउग्गामस्स' मातृग्रामस्य-स्त्रियाः ‘मेहुणवडियाए' मैथुनवाञ्च्या 'अंगादाणं' अङ्गादानम्, तत्राङ्गं शरीरं तस्य, आ॒दानं॑ प्र॒स्रुतिरि॒त्यर्थः, अ॒ङ्गादा॒नम् - अङ्गस्योत्पत्तिर्भवति यस्मात् तत् अङ्गादानम्, यद्यपि दाधातुर्दानार्थं कस्तथापि धातोरनेकार्थत्वादुपसर्गवत्त्वात् आर्यप्रकरण बळाच्चात्रोत्पत्तिरर्थो भवतीति । अङ्गादानं मेढ्रं स्त्रीपुरुषयोश्विह्नविशेषमित्यर्थः, एतादृशं स्त्रीणां स्वस्य वा भङ्गादानम् मोहनीय कर्मोदयात् 'कडे वा' काष्ठेन शिशपादिदारुदण्डेन वा 'किलिचेण' वा किलिञ्चेन वा तत्र किलिञ्चो वंशकर्परी, तादृशेन किडिचेन वा 'अंगुलियाए वा' अंगुल्या वा 'सलागाए वा' शलाकया वा लौड़ादिशलाकया वैत्रशलाकया वा 'सचालेइ वा' संचालयति 'संचालतं वा, साइज्जइ' संचालयन्तं वा स्वदते । यो हि अङ्गादानम् काष्ठादिना संचालयति तं योऽनुमोदते स प्रायवित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोपाश्चापि भवन्ति ॥ सू० ३ ॥ 1 - सूत्रम् -- जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं संवाहेज्ज वा पलिमद्देज्ज व संवाहतं वा पलिमतं वा साइज्जइ ||सू० ४ || छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अङ्गादानं संवादयेहा परिमर्दयेद्वा संवाहयन्तं वा प्ररिमर्दयन्तं वा स्वदुते ॥ सू० ४ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy