________________
पूर्णिभाष्यावचूरिः उ०६ सू०४-८
मातृग्रामप्रकरणम् १६१ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृप्रामस्य-यस्याः कस्याश्चित् स्त्रियाः 'मेहुणवडियाए" मैथुनप्रतिज्ञया-मैथुनेच्छयेत्यर्थः अंगादाणं' अङ्गादानं 'संवाहेज्ज वा' संबाहयेद्वा 'पलिमद्देज्ज वा' परिमर्दयेद् वा 'संवाहेंतं वा' संबाहयन्तं वा एकवारं मर्दयन्तम् 'पलिमतं वा' परिमर्दयन्तं वा अनेकवारं परिमर्दनं कुर्वन्तं वा 'साइज्जइ स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ४ ॥.
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं तेल्लेण वा घएणवा वसाए वा नवणीएण वा अभंगेज्ज वा मक्खेज्ज वा अन्भंगेंतं वा मक्वंतं वा साइज्जइ ॥ सू० ५॥
छाया-यो भिक्षुर्मातग्रामस्य मैथुनप्रतिशया अङ्गादानं तैलेन वा घृतेनं वा वसया वा नवनीतेन वा अभ्यञ्जयेद्वा ब्रक्षयेद्वा अभ्यञ्जयन्तं वा ब्रक्षयन्तं वा स्वदते॥सू० ५॥
चूर्णी- 'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः 'माउग्गामस्स' मातृग्रामस्य-स्त्रियाः 'मेहुणवडियाए' मैथुनवाञ्छया 'अंगादाणं' मङ्गादानम् 'तेल्लेण वा' तैलेन वा तिलसर्पपादिनातेन 'घएण वा' घृतेन वा 'वसाए वा' वसया वाचति-लोकप्रसिद्धया 'णवणीएण वा' नवनीतेन वा 'मक्खन' इति लोकप्रसिद्धेन 'अभंगेज वा' अभ्यञ्जयेद्वा एकवारं तैलादिना मर्दयेत् 'मक्खेज्ज वा' म्रक्षयेद्वा अनेकवारं विशेषतो वा मर्दयेत् 'अभंगतं वा मक्खेंतं वा साइज्जइ' अभ्यञ्जयन्तं वा सूक्षयन्तं वा स्वदते स प्रायचित्तभागी भवति ॥ सू० ५॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादाणं कक्केण वा लाद्धेण वा पउमचुण्णेण वा सिणाणेण वा पहाणेण वा चुण्णेहिंवा वण्णेहिं वा उव्वटूटेइ वा पविटूटेइ वा उव्वटेंतं वा पविटेंते वा साइज्जइ ।।
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिशया अङ्गादानं कल्केन वा, लोध्रण वा पनचूर्णेन वा स्नपनेन वा स्नानेन वा चूर्णैर्वा वर्णैर्वा उद्वर्तयति वा परिवर्तयति वा उद्वर्तयन्तं वा परिवर्तयन्तं वा स्वदते ॥ सू० ६ ॥
चूर्णी-'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनवाञ्छया 'अंगादाणं' अङ्गादानं 'कक्केण वा' कल्केन वा-अनेकद्रव्यसंयोगेन क्रियमाणो वस्तुविशेषः, तेन 'लोद्रेण वा' लोभ्रेण' वा 'पउमचुण्णेण वा' पद्मचूर्णेन वा 'हाणेणवा' सपनेन वा, तत्र स्नपनं घिष्टादिनिर्मितोद्वर्त्तनद्रव्यमिश्रितजलेन सिञ्चनं,