________________
॥ षष्ठोद्देशकः॥
(मारग्रामप्रकरणम्) पञ्चमोद्देशक व्याख्याय साम्प्रतमवसरप्राप्तं षष्ठोद्देशं व्याख्यातुमाह,-तत्र पञ्चमोदेशकेन सह षष्ठोदेशकस्य कः सम्बन्धः ? इत्यत्राह भाष्यकारः-'उस्सीसं' इत्यादि । भाष्यम्-उस्सीसं पुन्चकहियं, तेणं रत्तिं च सुचई साहू ।
रत्तीए मोहुदओ होइ जया तस्स पच्छित्तं ॥१॥ छाया-उच्छीर्ष पूर्व कथितं, तेन रात्रौ व स्वपिति साधुः ।
रात्रौ मोहोदयो भवति यदा तस्य प्रायश्चित्तम् ॥१॥ अवचूरिः-पञ्चमोद्देशकस्यान्तिमसूत्रे रजोहरणेन उच्छीर्षकरणस्य निषिद्धत्वेन प्रतिपादितम् एतावता रात्रौ शयनं कथितं, दिवसे तु साधोः शयनं न कल्पते । उच्छीर्षण शयने रात्रौ साधोर्यदा मोहोदयो भवेत् तेन स मैथुनप्रतिज्ञया मातृग्राम-स्त्रियं विज्ञपयेत् तस्यात्र षष्ठोदेशके प्रायश्चित्तं निरुपयिष्यते, अयमेव पञ्चमोद्देशकेन सह षष्ठोदेशकस्य सम्बन्धोऽस्ति ॥१॥
भनेन सम्बन्धेनायातस्यास्य षष्ठोद्देशकस्येहमादिस्त्रम्-'जे भिक्खू माउग्गाम' इत्यादि ।
सूत्रम्-जे भिक्खू माउंग्गाम मेहुणवडियाए विण्णवेइ विणवेतं वा साइज्जइ ॥ सू० १॥
छाया-यो भिक्षुर्मातग्राम मैथुनप्रतिक्षया विक्षपयति विज्ञपयन्तं वा स्वदते ॥ सू०१॥
चूर्णी-'जे भिक्खू' इत्यादि । यः कश्चिद् भिक्षुः-श्रमण श्रमणीः वा 'माउग्गाम' मातृप्राम-मातुः समानः ग्रामः इन्द्रियसमुदाय इति मातृग्राम इति षष्ठीतत्पुरुषस्तम् । देशविशेषभाषया 'मातृप्राम' शब्देन स्त्री गृह्यते तेन 'स्त्रियम्' इत्यर्थो बोध्यः, सर्वाः स्त्रियो भिक्षुणा मातृवद्द्रष्टव्या अतोऽत्र मातृग्रामशब्देन निर्देशः कृत इति भावः । 'मेहुणवडियाए' मैथुनप्रतिज्ञयामैथुनवाल्छया मिथुनस्य स्त्रीपुरुषस्य कर्म मैथुनम् अब्रह्मचर्यमित्यर्थः, तस्य वाच्छया स्त्रियम् 'विण्णवेई' विज्ञपयति-मैथुनाथ स्त्रियं प्रार्थयतीत्यर्थः 'विण्णवेतं वा साइज्जइ' विज्ञपयन्तं मैथुनाथ स्त्रियं प्रार्थयन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तथा प्रार्थयितुः प्रार्थयितारमनुमोदयितुश्चाज्ञाभङ्गादिका दोषा अपि भवन्तीति ॥ सू० १ ॥
सूत्रम्--जे भिक्खू माउग्गामस्स मेहुणवडियाए हत्थकम्मं करेइ करेंतं वा साइज्जइ ।। सू० २ ॥
छाया-यो भिक्षुर्मावग्रामस्य मैथुनप्रतिशया हस्तकर्म करोति कुर्वन्तं धा स्वदते ॥२॥