________________
१५८
निशीथवे रजोहरणीपरि मस्तकं दत्त्वा शयनं करोतीत्यर्थः, 'ठवेंतं वा साइज्जई' स्थापयन्तं वा स्वदते । यो हि श्रमणः रजोहरणोपरि मस्तकं दत्त्वा शयनं करोति तं श्रमणं यो भिक्षुरनुमोदते स प्रायश्चिचभागी भवति तस्मात् रजोहरणोपरि मस्तकं दत्त्वा शयनं न कुर्यात् , न वा तदुपरि मस्तकं दत्त्वा शयनं कुर्वतोऽनुमोदनमेव कुर्यादिति ॥ सू० ७८ ॥ .
सूत्रम्-जे भिक्खू स्यहरणं तुयटेइ तुयटेतं वा साइज्जइ ७९) छाया-योो भिक्षुः रजोहरणं त्वगूवर्तयति त्वरवर्तयन्त वा स्वदते ॥ सू० ७९ ॥
चूर्णी-'जे भिक्खू रयहरणं' इत्यादि। 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रयहरणं' रजोहरणम् 'तुय?ई' त्वग्वर्तयति रजोहरणोपरि शयानस्तत्रैव त्वगवर्तनं पार्श्वपरावर्तनं करोति इतस्ततः त्वचः परावर्तन करोतीत्यर्थः 'तुयटेंतं वा साइज्जई' त्वग्वर्तयन्तं वा स्वदते अनुमोदते । यो हि श्रमणः रजोहरणोपरि शयनं कृत्वा तदुपरि पार्श्वपरिवर्तनं करोति तं श्रमणं यः श्रमणः अनुमोदते स प्रायश्चित्तभागी भवति, , तस्मात् कारणात् रजोहरणोपरि त्वगवर्तनं न कुर्यात् , न वा त्वग्वर्तयन्तमनुमोदयेदिति ॥ सू० ७९ ॥ . सूत्रम्--तं सेवमाणे आवज्जइमासियं परिहारट्ठाणं उग्धाइयं ८०॥
॥निसीहज्झयणे पश्चमो उदेसो समत्तो ॥ छाया- तत्सेवमानः आपद्यते मासिकं परिहारस्थानमुद्घातिकम् ॥ सू० ८०॥
निशीथाध्ययने पञ्चम उद्देशकः समाः ॥५॥ चूर्णी-'त सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमानः सचित्तवृक्षमूलावस्थानादारभ्य रजोहरणोपरि त्वग्वर्तनपर्यन्तकथितप्रायश्चित्तस्थानेषु मध्ये यत् किमप्येकं प्रायश्चित्तस्थानं प्रतिसेवमानः 'आवज्जइ' आपद्यते प्राप्नोति 'मासियं परिहारद्वाणं उग्घाइयं' मासिकं परिहार स्थानमुद्घातिकम् लघुमासिकं प्रायश्चित्तं प्राप्नोतीत्यर्थः । अयं भावः-पञ्चमोदेशके यावन्ति प्राय चित्तस्थानानि प्रोक्तानि तेषु एकमनेकं वा प्रायश्चित्तस्थानं यो भिक्षुः सेवते स लघुचातुर्मासिक प्रायश्चित्तं लभते ।।सू० ८०॥ इति श्री-विश्वविख्यात-जगहल्लम-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाइछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर- पूज्यश्री-घासीलालबति-विरचितायां "निशीथमत्रस्य"
चूर्णिभाष्यावचूरिरूपायां व्याख्यायां पञ्चमोद्देशकः समाप्तः ॥५॥