SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ पूर्णिमाष्यावद्भिः उ.५ २. ७५-८० रजोहरणस्यानुचितोपभोगनिषेधः १५७ . छाया-यो भिक्षुः रजोहरणं व्युत्सृष्टं धरति धरन्तं वा स्वदते ॥सू० ७५॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रयहरेणं' रनोहरणम् 'वोसटुं' व्युत्सृष्टं स्वस्माद् अतिदूर-सार्द्धहस्तत्रयात् दूरम् , एतावद्रे अवस्थितं रजोहरणम् 'धरेइ' धरति-स्थापयति तथा 'धरेतं वा साइजई' घरन्तं वा स्वदते अनुमोदते । यो हि भिक्षुरतिदूरे रजोहरणं धरति स्थापयति, अथवा रजोहरणमन्तरेणैव गमनागमनं करोति तदा शरीरोपरि उपकरणोपरि वा पिपीलिकादि आगच्छेत् तत् हस्तादिना निवारणेन पिपीलिकादीनां विराधनं भवति, तथा हस्तेन शरीरकण्डूयने वा जीवविराधनासंभवः, तेन संयमविराधना भवति, तथा कदाचिदकस्माद् कोऽपि विपकीटः शरीरोपरि समापतति तदा रजोहरणाभावे आत्मविराधनाया अपि संभवः । यत इमे. दोषा भवन्ति तस्मात् रजोहरणस्य दूरे स्थापनं न कुर्यात् , न वा तथाकरिनुमोदनमपि कुर्यादिति ।। सू० ७५ ॥ . सूत्रम्-जे भिक्खू रयहरणं अणिसिटूठं धरेइ धरेतं वा साइज्जइः॥ छाया-यो भिक्षुः रजोहरणमनिसृष्टं धरति धरन्तं वा स्वदते ॥ सू० ७६ ॥ - चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् 'भिक्षुः रियहरणं' रजोहरणम् 'अणिसिटुं' मनिसृष्टम् यदनेकस्वामिकं वस्तु तदेकेन दीयमानम् अनिसृष्टमिति कथ्यते, एतादृशं रजोहरणम् 'धरेइ' धरति तादृशरजोहरणस्य धारणं करोति तथा 'धरतं वा साइज्जइ' धरन्तं वा स्वदते । यो हि श्रमण अनेकस्वामिकमेकेन दीयमानं रजोहरणं धरति तं योऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञामङ्गादिका दोषा भवन्ति । तथा सर्वस्वामिनाऽप्रदत्तस्य ग्रहणे इतरस्वामिना कलहादिरपि भवेत् तस्मात्तादृशं रजोहरण न धारयेत् , न वा धारयन्तमनुमोदयेदिति सर्वस्वामिदत्तं रजोहरणं ग्राह्यामेति भावः ।। सू० ७६ ॥ सूत्रम्-जे भिक्खू स्यहरणं अहिछेइ अहिछतं वा साइज्जइ ॥७७|| - छाया-यो भिक्षुः रजौहरण अधितिष्ठति अधितिष्ठन्तं वा स्वदते ॥ सू०.१७७॥ चूर्णी-'जे भिक्खू रयहरणं' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रयहरणं' रनोहरणम् 'अहिढेई' अधितिष्ठति रजोहरणोपरि उपविशति 'अहिटुंतं वा साइज्जई' अधितिष्ठन्तं वा स्वदते । यो हि रजोहरणोपरि उपविशति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति तस्मात् रजोहरणोपरि उपवेशनं न कर्त्तव्यम् ; न वा उपविशन्तं श्रमणमनुमोदयेदिति ।। सू० ७७ ॥ . . सूत्रम् "जे भिक्खू रयहरण उस्सीसमूले ठवेइ ठवेत वा साइज्जइ।७८ छाया-यो भिक्षुः रजोहरणम् उच्छीपमूले स्थापयति स्थापयन्तं वा स्वदते ॥७॥ चूर्णी-'जे भिक्खू स्यहरणं' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘रयहरणं' रजोहरणम् 'उस्सीसमूले ठवेइ' उच्छीर्षमूले स्थापयति शयनसमये मस्तकाधोभागे निदध्यात
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy