________________
चूर्णिभाष्यावचूरिः उ० ५ ० ६९-७४
रजोहरणस्यानुचितवन्धनिषेधः १५५
चूर्णी: - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अइरेगपमाणं' अतिरेकप्रमाणम् 'स्यहरणं' रजोहरणम् रजोहरणस्य मानमित्थम् - तथाहि-गमनसमये अधोमुखतामन्तरेणैव सुखतो भूमेः प्रमार्जनं कतु शक्नोति तावत्प्रमाणको दण्डः, तद्घटितरजोहरणं हस्तिपदप्रमाणकं शास्त्रसंमतम्, एतस्मादधिकमल्पं वा प्रमाणम् रजोहरणस्यातिरेकप्रमाणम् । अथवा द्वात्रिंशदकुलप्रमाणो दण्डः, अष्टाशुलप्रमाणाफली, ताश्च जघन्यतः सार्द्धशत संख्यकाः, मध्यमत ऊनशतद्वयसंख्यकाः, उत्कृष्टतः शतद्वयसंख्यका फलिकाः, एतादृशं भूमिकर्मकरणसमर्थम् भवभ्रमणकारणस्य कर्मरजसो हरणे समर्थ रजोहरणं घर्त्तव्यम्, इतोधिकप्रमाणकं न्यूनप्रमाणकं वा रजोहरणमतिरेकप्रमाणरजोहरणमिति कथ्यते । द्रव्यभावभेदेन द्विप्रकार करजसो हरणं करोतीति रजोहरणमिति व्युत्पत्तेः । तत् 'धरेइ' एतादृशप्रमाणतोऽतिरेकप्रमाणं रजोहरणं घरति, तथा 'घरेंतं वा साइज्जइ' घरन्तं वा स्वदते । यो हि भिक्षुरतिरेकप्रमाणकं रजोहरणं घरति घरन्तं वा योऽनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गादिका दोषा भवन्ति तस्मात् कारणादतिरेकप्रमाणकं रजोहरणं न धरेत् न वा घरन्तं श्रमणं कथं कथमपि अनुमोदयेदिति ॥ सू० ६९ ॥
तथा
सूत्रम् — जे भिक्खू सुहुमाईं स्यहरणसीसाईं करेइ करेंतं वा साइज्जइ ॥ सू० ७० ॥
छाया -यो भिक्षुः सूक्ष्माणि रजोहरणशीर्षाणि करोति कुर्वन्तं वा स्वदते ॥ ७० ॥
चूर्णो – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सुहुमाई' सूक्ष्माणि श्लक्ष्णानि शोभार्थम् 'स्यहरण सीसाइ' रजोहरणशीर्षाणि - रजोहरणस्य शीर्षाणि फलि - कास्तदप्रभागान् ‘करेइ' करोति संपादयति ' करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ७० ॥
सूत्रम् — जे भिक्खु रयहरणस्स एकं बंधं देइ देतं वा साइज्जइ । ७१ |
छाया - यो भिक्षुः रजोहरणस्यैकं वन्धं ददाति ददतं वा स्वदते ॥ सू० ७१ ॥ चूर्णी – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रयहरणस्स एक्कं बँधे देइ' रजोहरणस्यैकं बन्धनं ददाति रजोहरणस्योपरि निशीथिकासूत्रस्य एकमेव बन्धनं ददाति, अयं भावः—रजोहरणदशानां मध्ये प्रथममेकं बन्धनं दातव्यं, तदनन्तरं द्वितीयं बन्धनं फलिकामध्ये दातव्यम्, तदनन्तरम् तृतीयं बन्धनं रजोहरणस्य दण्डोपरिभागे अङ्गुलत्रयं परित्यज्य देयम्; एतादृशस्थितौ एकमेव बन्धनं ददाति तमंनुमोदते च स प्रायश्चित्तभागी भवति ॥ सू० ७१ ॥