SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ निशीथसत्रे 1 चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'लाउयपायं वा' अलाबुकपात्रं 'अलाबु' इति तुम्बिकेति लोकप्रसिद्धं, तस्य पात्रम् ' दारुपायं वा' दारुपात्रं वा-काष्ठपात्रमित्यर्थः 'मट्टियापायं वा' मृत्तिकापात्रं वा मृण्मयं भाजनमित्यर्थः 'अलं' अलम् - अखण्डम् 'थिरं' स्थिरं दृढं 'धुवं' ध्रुवं बहुकालपर्यन्तपरिभोगयोग्यं 'धारणिञ्ज' धारणीयं धारयितुं योग्यं न तु त्यागयोग्यम्, एतावता पात्राणां परिष्ठापनाभावे कारणं प्रदर्शितम् एतादृशं कार्यक्षममपि अलाबुपात्रादिकम् 'पलिभिदिय पलिभिदिय' परिभिध परिभिद्य प्रस्फोट्य प्रस्फोटयेत्यर्थः ' परिद्ववेई' परिष्ठापयति पात्राणि चूर्णीकृत्य भूमौ निक्षिपतीत्यर्थः तथा 'परितं वा साइज्जइ' परिष्ठापयन्तं वा स्वदते । यः श्रमणः कार्यक्षममपि अलाबुपात्रादिकं खण्डीकृत्य परिष्ठापयति, तमनुमोदते च स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयम विराधनादिका दोपाश्चापि भवन्ति, यस्मात्कारणात् कार्यक्षमानामपि पात्राणां स्खण्डीकृत्य परिष्ठापने परिष्ठापयितुरनुमोदने च पूर्वोक्ता दोषा भवन्ति, तस्मात् कारणात् श्रमणः अलाबुपात्रादिकं कार्यक्षमं चूर्णीकृत्य न परिष्ठापयेत्, न वा परिष्ठापयन्तमनुमोदयेदिति ॥ सू०६७॥ 1 १५४ सूत्रम् — जे भिक्खू दंडगं वा लट्ठियं वा अवलेहणियं वा वेणसूइयं वा पलिभंजिय पलिभंजिय परिद्ववेइ परिद्ववेंतं वा साइज्जइ ॥ सू० ६८ ॥ छाया -यो भिक्षुः दण्डकं वा यष्टिकां वा अवलेहनिकां वा वेणुसूचिकां वा परिभज्य परिभञ्ज्य परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ६८ ॥ चूर्णी: - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दंडगं वा' दंडकं - दारुवेणुप्रभृतिदण्डं वा 'लट्ठिय वा' यष्टिकां वा 'अवलेहणियं वा' अवलेहनिकां वा तत्र अवलेहनिका चरणलग्नकर्दमनिःसारणाय वंशादिनिर्मित्तक्षुरिकादिरूपा, ताम् 'वेणुसूइयं चा' वेणुसूचिकां वा 'पलिभंजिय पलिभंजिय' परिभञ्ज्य परिभञ्ज्य त्रोटयित्वा त्रोटयत्वेत्यर्थः 'परिवे' परिष्ठापयति, तथा 'परिहवेंतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदते । यो हि भिक्षुर्दण्डादिकं त्रोटयित्वा परिष्ठापयति, तं वा योऽनुमोदते स प्रायश्चित्तभागी भवति तथा तस्याज्ञाभङ्गादिका दोषाः भवन्ति ॥सू० ६८ || सूत्रम् — जे भिक्खू अइरेगपमाणं स्यहरणं धरेइ धरेंतें वा साइज्जइ ॥ सू० ६९ ॥ छाया - यो भिक्षुरतिरेकप्रेमाणं रजीहरणं धरति धरन्तं वा स्वदते ॥ सू१ ६९ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy