________________
mammmmmmmmwwwmmmmmmmmwwinnrmmrammmwwwwwwwwwwwwwwwwwwwwwwwwwwwwmmmmmmmmmmmmmmmmmm
पूर्णिभाष्यावरिः उ०५ सू०६६-६८ पक्षपात्रादीनां छेदनादि कृत्वा परिष्ठापननिषेधः १५३ मुपविश्याहारादिकरणम्, ततः असमानसामाचारीकैरपि सहाहारादिकरणे संभोगप्रत्ययकारणिका क्रिया कर्मबन्धो न भवति, इत्येवंप्रकारेण यो वदति । अत्र 'संभोग'--शब्देन द्वादशप्रकारकसंभोगो ज्ञातव्यः, येन साधुना सह एकत्र भोजनादिव्यवहारो न भवेत्तेन, अथवा यः विरुद्धसामाचारीकस्तेन सह भोजनादिक्रियां करोतु न तत्र कोऽपि कर्मबन्धः, इत्येवं यो वदति, तथा 'वयंत वा साइज्जइ'. वदन्तं वा स्वदते । यो हि भिक्षुः 'संभोगकारणकः कर्मबन्धो न भवति एवं वदति, तमनुमोदते च स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थामिथ्यात्वादिका दोषा भवन्ति तस्मात् संभोगप्रत्यया क्रिया न भवतीत्येवं न वदेत् ॥सू०६५॥
सूत्रम्-जे भिक्खू वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अलं थिरं धुवं धारणिज्जं पलिच्छिदिय पलिच्छिदिय परिहवेइ परिहवेत वा साइज्जइ॥ सू० ६६॥
छाया-यो भिक्षुर्वस्त्रं वा प्रतिग्रह वा कम्बलं वा पादप्रोग्छनकं वा अलं. स्थिर ध्रुवं धारणीयं प्रतिच्छिद्य प्रेतिच्छिद्य परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ खू०६६॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू - यः कश्चिद् भिक्षुः निरवधभिक्षणशील: श्रमणः श्रमणी वा 'वत्थं वा वस्त्रं वा-क्षौमिकं कामिकं वा 'पडिग्गरं वा' प्रतिग्रहं वा-पात्रं वा 'कंवलं वा कम्बलं वा-ऊर्णादिनिष्पन्न 'पायपुंछणं वा' पादपोछनकं वा-रजोहरणमित्यर्थः, 'अल थिरं धुवं तत्र मलं कार्यकरणे पर्याप्तं समर्थमपि, स्थिरम् यथावस्थित, ध्रुवं चिरकालपर्यन्तवर्तनयोग्यं 'धारणिज्ज' धारणीय-धारणयोग्यं कार्यकरणयोग्यमपि वस्त्रादिकम् 'पलिच्छिदियपलिच्छिदिय' प्रतिच्छिद्य प्रतिच्छिद्य हस्तेन छुरिकादिना वा खण्डं खण्डं कृत्वा 'परिहवेई' परिष्ठापयति-कार्यक्षममपि वस्त्रादिकं हस्तेन शस्त्रादिना वा छित्त्वा भूमौ परिष्ठापयति निक्षिपति तथा 'परिहवेत वा साइज्जइ' परिष्ठापयन्तं वा स्वदते, तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति । यस्मादेते दोषा भवन्ति तस्मात् कारणात् श्रमणः श्रमणी वा कार्यकरणक्षमं वस्त्रादिकं छित्वा न परिष्ठापयेत् , न वा परिष्ठापयन्तमनुमोदयेदिति ॥सू०६६॥
सूत्रम्--जे भिक्खू लाउयपायं वा दारुपायं वा मट्टियापायं वा अलं थिरं धुवं धारणिज्जं पलिभिदिय पलिभिदिय परिहवेइ परिद्ववेतं वा साइज्जइ सू० ६७॥
__ छाया-यो भिक्षुरलावुकपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा अलं स्थिरं धवं धारणीय परिभिद्य परिभिद्य परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ६७ ॥
२०