________________
निशीथसूत्रे.
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सपाहुडियं सेज्जं
1
सप्रामृतिकां शय्याम्, प्रामृतम् - उपहारः यत्र कर्म प्राभृतं भवति कर्मण आगमनं भवति तेन सहिता या सा प्रामृतिका, यस्यां वसतौ छादनलेपनभूमिकर्मादिकं क्रियते तादृशीं शय्यां वसतिम्, या प्राचूर्णकानां निवासाय कियत्कालार्थ दत्ता साऽपि वसतिरुपचारात्- सप्राभृतिका प्रोच्यते, तादृशीं शय्यां वसतिं स्थानकमित्यर्थः 'अणुप्पविसइ' अनुप्रविशति एतादृशोपाश्रये निवासार्थमागच्छति 'अणुप्पवितं वा साइज्जइ' अनुप्रविशन्तं वा स्वदते । यो हि भिक्षुः सप्राभूतर्क स्थानकं निवासार्थमागच्छति तमनुमोदते स प्रायश्चित्तभागो भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति । यस्मात् कारणात् सप्राभृतिकावसतौ निवासकरणे एते पूर्वोक्ता दोषा भवन्ति तस्मात् कारणात् श्रमणः सप्राभृतकस्थानके निवासं न कुर्यात्, न वा सप्राभृतकस्थानके निवसन्तं श्रमणमनुमोदयेदिति ॥ सू० ६३ ॥
१५२
सूत्रम् — जे भिक्खू सपरिकम्मं सेज्जं अणुप्पविसइ अणुप्पविसंत वा साइज्जइ ॥ सू० ६४ ॥
छाया -यो भिक्षुः सपरिकर्मा शय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥सू०६४ || 'चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'सपरिकम्मं सेज्जं 'अणुप्पविस ' सपरिकर्मा शय्याम् अनुप्रविशति, तत्र सपरिकर्मा - परिकर्मसहिता लिसा घृष्टा मृष्टा धवलिता भवेत्, यत्र निवासकरणेन मूलगुणोत्तरगुणानां विघातो. जायते, अथवा यस्यां वसतौ साधुमुद्दिश्यानुद्दिश्य वा कश्चित् घावनघर्षणलेपनादिकं चित्रकर्मादिकं वा संपादितं भवेत् तादृशी वसतिः सपरिकर्मा शय्या कथ्यते । तामनुप्रविशति तत्र निवासं करोति, तथा 'अणुष्पविसंत वा साइज्जड़' अनुप्रविशन्तं वा स्वदते । यो हि भिक्षुः सपरिकर्मवसतौ निवासं करोति तं योऽनुमोदते स प्रायवित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० ६४ ॥
सूत्रम् — जे भिक्खू ' णत्थि संभोगवत्तिया किरिय' -त्ति वयइ वयंतं वा साइज्जइ ॥ सू० ६५ ॥
छाया - यो भिक्षुः 'नास्ति संभोगप्रत्यया क्रिया' इति वदति वदन्तं वा स्वदते ॥६५॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'णत्थि संभोगवत्तिया किरिय' - चि वयइ' नास्ति संभोगप्रत्यया क्रियेति वदति । तत्र नास्ययं प्रतिषेधः, 'संभोग' इत्यत्र संशब्दः एकीभावे भुजघातुः पालनाभ्यवहरणार्थकः, ततश्च एकत्र भोजनमित्यर्थः, एकमण्डल्या