SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ पूर्णिमा यावचूरिः उ० ५ सू० ६१-६४ औहेशिवयादिवसतिवासनिषेधः १५१ - सूत्रम्-एवं अण्णयरांणि वा तहप्पगाराणि वा अणुदिन्नाई सदाई उदीरेइ उदीत वा साइज्जइ ॥ सू० ६१॥ छाया-एवमन्यतरान् वा तथाप्रकारान् वा 'अनुदीर्णान् शब्दान्' उदीरयति उदीरयन्तं वा स्वदते ॥ सू०.६१ ॥ चूर्णी- 'एवं अण्णयराणि' इत्यादि । संप्रति प्रकृतप्रकरणमुपसंहरन्नाह-'एव'मित्यादि । 'एवं' एवं यथोक्तप्रकारेण 'अण्णयराणि वा' अन्यतरान् वा वीणावादनप्रकारेण अन्यानपि शब्दान् पशुपक्षिसादीनां शब्दान् 'तहप्पगाराणि वा' तथाप्रकारान् वा तं प्रकारमापन्ना इंति तथाप्रकाराः, तान् शब्दान् वादित्रशब्दसमानानन्यानपि 'अणुदिन्नाई अनुदीर्णान् 'सहाई' शब्दान् 'उदीरेइ' उदीरयति उच्चारयति, अर्थात् यत् मोहनीय कर्म उपशान्तं तत् पुनरनेकप्रकारकशब्दोच्चारणेन उदीरयति, तथा 'उदीरेंतं वा साइज्जई' उदीरयन्तं वा स्वदते । यो हि श्रमणोऽनेकप्रकारकान् शब्दानुदीरयति तं योऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्तीति ।। सू० ६१ ॥ सूत्रम्-जे भिक्खू उद्देसियं सेज्जं अणुप्पविसइ अणुप्पविसंत वा साइज्जइ ॥ सू० ६२॥ छाया यो भिक्षुरौदेशिकी शय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥सू० ६२॥ चूर्णी-जे भिक्खू उद्देसियं' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'उरेसियं सेज्ज' मौदेशिकी शय्याम्-एकं श्रमणं श्रमणी वा उद्दिश्य कृता इति औहेशिकी, सा चासौ शय्या वसतिः स्थानकमित्यर्थः तामौदेशिकी शय्याम् 'अणुप्पविसई' अनुप्रविशति साधुमुद्दिश्य कृतोपाश्रये उपागच्छति, उपाश्रये निवासकरणार्थं यः श्रमणः प्रवेश करोति, तथा 'अणुप्पविसंत वा साइज्जइ' 'अनुप्रविशन्तं वा स्वदते । यः ‘श्रमण औदेशिकस्थानके उपागच्छति तं योऽन्यः श्रमणोऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभादिका । दोषा भवन्ति ।। सू० ६२ ॥ सूत्रम्-जे भिक्खू सपाहुडियं सेज्जं अणुप्पविसइ अणुप्पक्सितं वा साइज्जइ॥ सू० ६३ ॥ छाया-यो भिक्षुः सप्राभृतिकां शय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ६३
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy