________________
चूर्णिभाष्यावचूरिः उ. ४ सू० १३६-१३९ उच्चारप्रवणपरिष्ठापनाधिकारः १३३ दंशने चात्मविराधनं च । यस्मादेते दोषास्तस्मात् कारणात् दिवसस्य चरमपौरुण्यामेव भूमित्रयस्यावश्यमेव प्रतिलेखनं कर्तव्यम् । तिस्रो भूमय आसन्न-मध्य-दूररूपाः, तत्र-आसन्नभूमिर्वसतिसमीपस्था, मध्यभूमिर्लोकानां गमनागमनमार्गरूपा, दूरभूमिः-सार्द्धद्विशतहस्तप्रमाणात्परं या भूमिः सा इति ॥ सू० १३५ ॥
सूत्रम्-जे भिक्खू खुड्डागंसि थंडिलंसि उच्चारपासवणं परिठवेइ, परिहतं वा साइज्जइ १३६॥
छाया-यो भिक्षुः क्षुल्लके स्थण्डिले उच्चारप्रवण परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥सू० १३६॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् मिक्षुः 'खुड्डागंसि थंडिलंसि' क्षुल्लकेऽतिसंकुचिते स्थण्डिले स्थाने, तत्र हस्तप्रमाणतो यत् न्यूनं स्थानं तत् क्षुल्लकं स्थानं, तस्मिन् . क्षुल्लकस्थाने 'उच्चारपासवणं परिहवेइ' उच्चारप्रस्रवणं परिष्ठापयति । 'परिहवेतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदते स प्रायश्चित्तभाग् भवति ॥१३६॥
क्षुल्लकस्य किं प्रमाणम् ? अत्राह भाष्यकार:भाष्यम्-विक्खंभायामेहि, रयणीमेत्तं हवेज्ज थंडिल्लं ।
चउरंगुलमोगादं, जहण्णवित्थिण्णमच्चित्तं ।। एत्तो हीणतरं जं, खुड्डागं थंडिलं मुणेयव्वं ।
एत्थ य परिह-तो, आणाभंगाइ पावेइ ।। छाया-विष्कम्भायामाभ्यां रत्निमात्रं भवेत् स्थण्डिलम् ।
चतुरगुलावगाढ़, जघन्यविस्तीर्णमचित्तम् ।। अस्मात् हीनतरं यत् क्षुल्लकं स्थण्डिलं ज्ञातव्यम् ।
अत्र च परिष्ठापयन् , आज्ञाभङ्गाद्रि प्राप्नोति ।। अवचूरि:-'विक्खंभायामेहि' इत्यादि । विष्कम्भायामाभ्यां रनिमात्रं बद्धमुष्टिकहस्तप्रमाणं यद् भवेत् , तथा यच्च चतुरमुलावगाई भूमेरघश्चतुरझुलं यावद् अचित्तं भवेत् तत् स्थण्डिलं जघन्यविस्तीर्ण जघन्यतो विस्तीर्ण कथ्यते । 'एत्तो' इत्यादि, अस्मात् जघन्यविस्तीर्णात् यत् हीनतरं भवेत् तत् क्षुल्लक स्थण्डिलं ज्ञातव्यम् , अत्र--अस्मिन् एतत्परिमिते स्थण्डिले उच्चारप्रस्रवणं परिष्टापयन् साधुः आज्ञाभङ्गादि प्राप्नोति ॥ सू० १३६ ॥
सूत्रम्-जे भिक्खू उच्चारपासवणं अविहीए परिठ्ठवेइ, परिट्ठवैतं वा साइज्जइ॥ सू० १३७॥
छाया-यो भिक्षुरुच्चारप्रस्रवणम् अविधिना परिष्ठापयति परिष्ठापयन्त वा स्वदते ॥सू०१३७॥