________________
निशीथसूत्रे चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'अविहीए' अविधिना शास्त्रप्रदर्शितविधिव्यतिक्रमेण 'परिहवेइ' परिष्ठापयति व्युत्सृनति 'परिहवेतं वा' अविधिना उच्चारप्रस्रवणादिकं परिष्ठापयन्तं व्युत्सृजन्तं स्वदते स प्रायश्चित्तभागी भवति । तत्र विविमाह-यत्र परिष्टापयितुमिच्छति तत्र स्थानस्य दिशायाश्च दृष्टया प्रतिलेखनं करणीयम् , तथा तादृशस्थाने त्रसस्थावरादिजीवो भवेत् तदा तादृशस्थानस्य प्रमार्जनं कर्तव्यम् , प्रमार्जनं कृत्वा भूमेरुपरि चतुरङ्गुलोच्छ्रितहस्तेन परिष्ठापयेत् , इति विधितिव्यः । एतादृशविधिव्यतिरेकेण य उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा अनुमोदते तस्य पूर्वोक्ता दोषा भवन्तीति ॥१३७॥
सूत्रम्-जे भिक्खू उच्चारपासवणं परिद्ववेत्ता न पुंछइ, न पुंछंतं वा साइज्जइ ।। सू० १३८॥
छाया-यो भिक्षुरुच्चारप्रस्रवणं परिष्ठाप्य न प्रोग्छति, न प्रोग्छन्तं वा स्वदते ॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'उच्चारपासवर्ण' उच्चारप्रस्रवणम् 'परिद्ववेत्ता' परिष्टाप्य व्युत्सृज्य 'न पुंछइ' न प्रोञ्छति तयोर्लेप नापनयति, तथा 'न पुंछंतं वा साइज्जई' न प्रोञ्छन्तं वा स्वदते स प्रायश्चित्तभागी भवति ।। सू० १३८॥
सूत्रम्-जे भिक्खू उच्चारपासवणं परिवेत्ता कट्ठेण वा किलिं चेण वा अंगुलियाए वा सलागाए वा पुंछइ पुंछत वा साइज्जइ ॥१३९॥
छाया-यो भिक्षुरुच्चारप्रस्रवणं परिष्ठाप्य काष्ठेन वा किलिंचेन वा अङ्गुल्या वा शलाकया वा प्रोञ्छति प्रोग्छन्तं वा स्वदते ॥सू० १३९ ।।।
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'उच्चारपासवणं' उच्चारप्रसवणं 'परिद्ववेत्ता' परिष्टाप्य 'कटेण वा' काष्ठेन वा 'किलिंचेण वा किलिंचेन वा तत्र किलिंचो वंशचीरिका, वेणुना निर्मितः क्षुरिकासदृशो वस्तुविशेषस्तेन वा 'अंगुलियाए वा' अङ्गुल्या वा 'सलागाए वा' शलाकया वा लौहादिनिर्मितशलाकया -'पुंछई' प्रोञ्छति-स्वच्छं करोति 'पुछतं वा साइज्जई' प्रोञ्छत वा स्वदते । जीर्णवस्त्रस्याङ्गुलत्रयदीर्घायामपरिमितेन खण्डवस्त्रेण क्रमशः प्रथममुन्चारस्थानं प्रोञ्छनीयम् , तदनु च नावापूरत्रयपरिमिताचित्तजलेन तत् स्थानं प्रक्षालनीय, तत्त एकनावापूरपरिमितेनाचित्तजलेने हस्तौ प्रक्षालनीयो, इति । सू० १३९ ॥
सूत्रम्-जे भिक्खू उच्चारपासवणं परिवेत्ता णायमइ, णायमंतं वा साइज्जइ ॥१४॥
छाया- यो भिक्षुरुच्चारप्रनवणं परिष्ठाप्य नाचमति नाचमन्तं वा स्वदते ।१४०। चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'उच्चारपासवर्ण