SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १३० अत्राह भाष्यकारः- भाष्यम् – साणुप्पा काले, पडिलेहं नो करिज्ज जो भिक्खू । उच्चारपासवणस्स, भूमीए पावर मिच्छ्रं ॥ निशीथसूत्र wwwwwww छाया - सानुपादे काले प्रतिलेखं नो कुर्याद् यो भिक्षुः । उच्चारप्रस्रवणस्य, भूम्याः प्राप्नुयात् मिथ्यात्वम् ॥ अवचूरिः - 'साणुप्पाए' इत्यादि । सानुपादे काले दिवसस्य चतुर्थ भागावशेषे काले उच्चारप्रस्रवणस्य भूम्याः प्रतिलेखनं यो भिक्षुर्न कुर्यात् स मिथ्यात्वम् आज्ञाभङ्गादिदोषाँश्च प्राप्नोतीति । रात्रौ यत्रोच्चारप्रस्रवणं परिष्ठापनीयं भवेत् तादृशं भूमिभागं दिवसस्य चरमभागे एवावश्यं प्रतिलेखयेदिति, तस्यः यः प्रतिलेखनं न करोति तस्य आज्ञाभङ्गानवस्थामिथ्यात्वादिकान् दोषान् प्राप्नोति । तत्राऽप्रतिलेखितायां भूमौ उच्चारप्रस्रवणयोः परिष्ठापने इमे दोपाः, तथाहि - अप्रतिलेखितायां भूमौ परिष्ठापयति उच्चारप्रस्रवणं तदा द्रव्यतः पटुकायानामुपमर्दनसंभवेन संयमविराधनम्, तथा तत्र विलादिकसंभवेऽप्रतिलेखिते प्रतिष्ठापने सर्पवृश्चिकादिजन्तुसंभवे तेनोपघात संभवेनात्मविराधनम्, तथा अन्धकारे गमने उच्चारप्रस्रवणादिना चरणौ उपलिप्तौ भवेतामिति उपकरणादिविनाशः, साधोर्विपरिणामो वा भवेत्, यस्मात् अप्रतिलेखितायां भूमौ मूत्रपुरीषपरिष्ठापने इमे दोषा भवन्ति तस्मात् कारणात् दिवसस्य चरमपौरुष्यामेव प्रयत्नपूर्वकम् उच्चारप्रस्रवणभूमिमवश्यमेव प्रतिलेखयेत् ॥१३४॥ सूत्रम् - जे भिक्खू तओ उज्वारपासवणभूमीओ ण पडिलेहेइ ण पडिलेर्हेतं वा साइज्जइ ॥ सू० १३५ ॥ छाया - यो भिक्षुः तिस्रः उच्चारप्रस्रवणभूमीर्न प्रतिलेखयति नं प्रतिलेखयन्तं वा स्वते ||० १३५|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खु यः कश्चिद् भिक्षुः श्रमणः 'तओ उच्चारपासवण भूमीओ' तिस्रः - त्रिसंख्यका उच्चारप्रस्रवणभूमी: त्रीणि मंडलानीति यावत् 'ण पडिले हेइ' न प्रतिलेखयति, 'ण पडिलेवेंते' न प्रतिलेखयन्तं प्रतिलेखनं न कुर्वन्तं वा स्वदतेऽनुमोदते । एकस्या भूम्या एव प्रतिलेखनकरणेन तत्र उच्चारप्रनवण परितिष्ठापसंभवेऽपि भूमित्रयस्य प्रतिलेखनं किमर्थमिति चेत् व्याह-यदि कदाचित् रात्रौ एकस्यां भूमौ परिष्ठापने कश्चित् व्याघातो भवेत् तदा द्वितीयतृतीयप्रतिलेखित भूमौ प्रस्रवणादीनां परिष्ठापनं कर्तव्यम्, अतोभूमित्रयस्य प्रतिलेखन सूत्रे प्रदर्शितम् । यो हि भिक्षुः भूमित्रयं न प्रतिलेखयति किन्तु अप्रतिलिखितायामेव भूमौ उच्चारप्रस्रवण परिष्ठापयति स प्रायश्चित्तभागी भवति, तथा आज्ञाभङ्गादिकान् दोषान् प्राप्नोति तथा अप्रतिलेखित भूमौ व्युत्सजेने द्रव्यतः पड्जीवनिकायविराधने संयमविराधनम्, बिलादिसंभवे सर्पादीनां ,
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy