________________
..
.
पूर्णिभाष्यावचूरिः उ. ४ सू० १३४-१३५ उच्चारप्रस्रवणभूमेः प्रतिलेखनाधिकारः १२९
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः 'गामाणुगामदुइज्जमाणे' ग्रामानुग्राम द्रवन् एकस्मात् ग्रामाद् ग्रामान्तरं द्वितीय ग्राम प्रति गच्छन् मार्गे गमनसमये आतपादिभ्यो रक्षणबुद्ध्या 'अण्णमण्णस्स सीसदुवारियं करेइ' अन्योन्यस्य परस्परस्य साधुसाध्वीति परस्परं शीर्षद्वारिकाम् मस्तकोपरिवस्त्राच्छादनलक्षणां करोति संपादयति तथा 'करें। वा साइज्जई' अन्योन्यस्य शीषद्वारिकां कुर्वन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति । एतेषां सर्वेषां पादप्रमार्जन-कायवणगण्ड-केश-रोम मल-जल्लादिसूत्राणां चूणीभाष्याऽवन्यस्तत्तत्सूत्रव्याख्याऽवसरे तृतीयोद्देशके एव द्रष्टव्याः ॥ सू० १३३ ॥
अत्राह भाष्यकारःभाष्यम् - पमज्जणाइसुत्ताणं, तइए जो गमो मओ ।
साहूणीण य साहूणं, अन्नोन्नमत्थ आहिओ ॥ छाया-प्रमार्जनादिसूत्राणां तृतीये यो गमो मतः ।
साध्वीनां च साधूना-मन्योन्यमत्राख्यातः ॥ अवचूरिः- 'पमज्जणाई' इत्यादि । प्रमार्जनादिसूत्राणां पादप्रमार्जनादारभ्य शीर्षद्वारिकापर्यन्तं त्रिपञ्चाशत्सूत्राणां यो गमो यादृशस्तृतीये उद्देशके भरख्यातः स एव गमः प्रकारः अत्र चतुर्थे चतुर्थोद्देशके साध्वीनां साधूनां च अन्योन्य शोपद्वारिकाकरणे ज्ञातव्य इति सर्वमत्र तृतीयोद्देशकवदेव व्याख्यातव्यमिति |सू० १३३॥
___ यावत् शब्देन गृहीतानि सूत्राणि व्याख्यातानि सम्प्रति क्रमप्राप्तं सूत्रमाह-'जे भिक्खू' इत्यादि ।
सूत्रम्--जेक्खू साणुपाए उच्चारपासवणभूमि ण पडिलेहेइ, ण पडिलेहतं वा साइज्जइ सू० १३४॥
छाया-यो भिक्षुः सानुपादे उच्चारप्रस्रवणसूमि न प्रतिलेखयति न प्रतिलेखयन्तवा स्वदते ॥सू० १३४॥
चूर्णी-'जे भिक्खू' इत्यादि । यः कश्चिद् भिक्षुः श्रमणः 'साणुपाए' सानुपादे, पादः चतुर्थभागरूपः, तम् मनु-अधिकृत्य यद् भवति तद् अनुपादं, तेन सहितं सानुपादम्-दिवसस्य चतुर्थभागावशेष, तस्मिन् सानुपादे चतुर्थभागावशेषायां चरमायां पौरुष्यामित्यर्थः, यो भिक्षुः 'उच्चारपासवणभूमि ण पडिले हेइ' उच्चारप्रस्रवणभूमि न प्रतिलेखयति, अयं भावः-रात्रौ यत्र उच्चारप्रस्रवणं व्युत्स्रक्ष्यते ताशभूम्या यदि दिवसावसाने चरमपोरुण्यामेव प्रतिलेखनं न करोति तथा 'ण पडिलेहेंतं वा साइज्जई' न प्रतिलेखयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १३४॥