________________
निशीथसूत्रे त्वसंयमविराधनाऽऽत्मविराधनादोषा भवन्ति ||० ६१ || 'एवं सो चेव रायगमओ भाणियन्वो' एवम् अनेनैव रीत्या स एव योऽस्यैवोदेशकस्य द्वितीयादिसूत्रगतो राजगमकः - 'अच्चीकरेइ ' ||सृ०६२|| अच्छीकरेइ ||सू० ६३|| अत्थीकरेइ ||सू० ६४ ॥ इत्येवंरूपः सोऽपि सूत्रत्रयात्मकोsत्रापि भणितव्यः ॥ सू० ६४ ॥
सूत्रम् — एवं देसरक्खयं ४ (६८) एवं सीमारक्खयं ४ (७२) एवं रन्नारक्खयं४ (७६) एवं सव्वाक्खयं ४ || सू० ८० ॥
छाया - एवं देशरक्षकम् ४ (६८) एवं सीमारक्षकम् ४ ( ७२ ) एवमरण्यारक्षकम् ४ (७६) एवं सर्वारक्षकम् ४ || सू० ८०||
चूर्णी - एषां व्याख्या च पूर्ववद् बोध्या । सू० ५-८०॥
सूत्रम् -- जे भिक्खू अण्णमण्णस्स पाए आमज्जेज्ज वा पमज्जेज्ज वा, आमज्जैतं वा पमज्जंतं वा साइज्जइ ॥ सू० ८१ ॥
१२८
छाया - यो भिक्षुरन्योन्यस्य पादौ आमार्जयेद्वा प्रमार्जयेद्वा आमार्जयन्तं वा प्रमाजयन्तं घt स्वदते ॥ सू० ८१ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । यो भिक्षुः अन्योन्यस्य परस्परं साधुः साध्याः, साध्वी साघोर्वा, इत्येवं परस्परं पादौ आमार्जयेद्वा प्रमार्जयेद् वा आमार्जयन्तं वा प्रमार्जयन्तं वा स्वद स प्रायश्चित्तभागी भवति ॥ सू० ८१ ॥
सूत्रम् - एवं तइयउद्देसगमो भाणियव्वो (सू०८२ से सू० १३३
जाव
छाया -- एवं तृतीयोद्देशगमो भणितव्यः (सू० ८२ से सू० १३३) यावत् ॥
चूर्णी -- ' एवं ' इत्यादि । एवम् अनेनैवालापकप्रकारेण तृतीयोदेशगमः - तृतीयोद्देशे यो गभस्त्रिपञ्चाशत्सूत्रात्मकः प्रोक्तः सोऽत्राऽपि ज्ञातव्यः । कियत्पर्यन्तम् ? इत्याह- ' जाव' इत्यादि, 'जाव' यावत् शीर्षकद्वारिकासूत्रपर्यन्तम् । एकाशीतितमादामार्जनसूत्रादारभ्य त्रयस्त्रिंशदधिकशततमं शीर्पद्वारिकासूत्रपर्यन्तं त्रिपञ्चाशत्सूत्रसमुदायोऽत्र वाच्यः । विशेषस्त्वयम् - [ तत्र तृतीयोद्देशे 'अपष्णो पाए' इत्यादि पठितम् अत्र तु - 'अन्नमन्नस्स पाए' इत्यादि पठितव्यम् । तथाहि तदन्तिम - सूत्रम् —
,
जे भिक्खु गामाणुगामं दुइज्जमाणे अण्णमण्णस्स सीसवारिय करेइ करेंतं वा साइज्जइ ॥ सू० १३३॥
छाया -- यो भिक्षुग्रमानुगामं द्रवन् अन्योन्यस्य शीर्षद्वारिकां करोति कुर्वन्तं बा खदते ||सू० १३३ ॥