SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०४ सू०३१-६० उदकादिसंसृष्टहस्तादिनाऽशनादिग्रहण नि० १२५ सूत्रम्-जे भिक्खू पासत्थस्स संघाडयं पडिच्छइ पडिच्छंतं वा साइज्जइ ।। सू० ३१॥ छाया-योभिक्षुः पाश्वस्थस्य संघाटकं प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥सू०३१॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पासत्थस्स' पार्श्वस्थस्य 'संघाडयं' संघाटक-शिष्यसाहाय्यम् 'पडिच्छई' प्रतीच्छति--स्वीकरोति-.गृह्णातीत्यर्थः, 'पडिच्छंतं वा साइज्जई' प्रतीच्छन्तं वा स्वदते । यः पार्थस्थस्य शिष्यादिपरिवारं स्वसाहाय्यतया वान्छति तं योऽनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादयो दोषा भवन्ति, अतः पार्श्वस्थसंघाटकस्य साहाय्यं न गृह्णीयात् ।। सू० ३१॥ एवम् - 'ओसन्नस्स संघाडयं देइ पडिच्छई' ॥३२॥३३॥ एवं 'कुसीलस्स' इति सूत्रद्वयम् ॥३४॥३५॥ 'णितियस्स' इति सूत्रद्वयम् ||३६।३७|| 'संसत्तस्स' इति सूत्रद्वयम् ॥३८-३९॥ चेति सूत्राष्टकं पार्श्वस्थसूत्रद्वयवद् व्याख्येयम् ॥ सू० ३८-३९॥ अत्राह भाष्यकार:भाष्यम्-पासस्थाईण संघाडं, देइ तेर्सि पडिच्छइ । आणाभंगाइए दोसे, पावई सो जई सया ।। छाया-पार्श्वस्थादिभ्यः संघाडं, ददाति तेपां प्रतीच्छति । आशाभङ्गादिकान् दोपान प्राप्नोति स यतिः सदा ॥ अवचरि:-'पासत्थाईण' इत्यादि । यदि भिक्षुः पार्श्वस्थादिभ्यः संघाटं ददाति तदाऽऽज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनायो दोपा भवन्ति । तत्र संयमात्मविराधना : यथा-- पार्श्वस्थादिभ्यः प्रदत्तः संघाटको यदि प्रतिलेखन-प्रमार्जनादिकां साधुक्रियां सम्यक्तया करोति तदा स्वापमानं विज्ञायेत प्रतिपेधिष्यति च । ततस्तद्वचनं स यदि स्वीकरोति, तदाऽऽचारे शैथिल्यं प्रतिपद्यते तेन संयमविराधना जायते । यदि न स्वीकरोति तदा-कलहो युद्धं वा संभवति, तेनाऽऽत्मविराधना समापयेत । एव. मशनादिग्रहणेऽग्रहणे च पूर्वोक्ता दोषाः समापघेरन् , अतः पार्श्वस्थादिभ्यः संघाटको न दातव्यः । एवं-यदि पावस्थादीनां संधार्ट प्रतीच्छति तदाऽपि पूर्वोक्ता एव दोषा भवन्ति । तथाहि- यदि श्रमणः पार्श्वस्थादिसंघाटकं स्वीकृत्य तेन सह विहरति तदा विहारसमये स उद्गमादिदोपदूपितं भक्तपानादिकं गृह्णाति । तस्य चोपभोगः श्रमणस्यापि अवश्यमेव भवेत संघाटाऽऽनीतत्वात् । अथ यदि कुत्रचित् साधुना प्रतिषिद्धे पार्श्वस्थादिसंघाटकेन गृहोते सदोषान्नपानादिके साधुमौनमालम्बते तदाऽऽज्ञाभगदोषः स्यात् । तथा- दातॄणां गृहिणामविश्वासोऽपि स्यात् । तथा
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy