________________
निशीथसूत्रे
१२६
ते श्रावका एवं वदेयुः- “किं तीर्थकरेण द्विप्रकारको धर्मः साधूनां कृते कथितः यदत्र सदोषमपि एके गृह्णन्ति न पुनरेके” एवं गृहस्थैः कथितेऽपि यदि साधुः पार्श्वस्थादिसंघाटकस्याऽनुरोधान्मौनमालम्बते - अनुमति वा ददाति, तदा धर्मे महान् अविश्वासो भवेत् । तथा-- दीर्घसंसारकान्तारावाप्तिर्भवेत् । अथ यदि साधुर्वदति - "न द्विविधो धर्मस्तोर्थकरेण कथितः" तदा पार्श्वस्थादेर्वचनं प्रतिहतं भवति ततश्च स एव कलहो द्वयोर्भविष्यति तेनाऽऽत्मविराधनायाः सम्भवः । तदानीता - Sशनादिस्वीकारे पोडश उद्गमादिदोषाः, उत्पादनादोषाश्चापि पोडश, दश - एषणादोषाः, एवं द्विचत्वारिशदाहारदोपा : भविष्यन्तीति पार्श्वस्थादिभिः सह संघाटकस्यादानं प्रदानं वा न कर्त्तव्यमिति ॥ सू० ३९ ॥
सूत्रम् - जे भिक्खू उदउल्लेण हत्थेण वा मत्तेण वा दव्वीए वा भायणेण वा, असणं वा ४ पडिग्गाहेइ, पडिग्गार्हतं वा साइज्जइ ॥ सू०४०॥ छाया - यो भिक्षुः उदकार्द्देण हस्तेन वा मात्रेण वा दर्या वा भाजनेन वा अशनं वा ४ प्रतिगृह्णाति प्रतिगृदन्तं वा स्वदते ॥ सू० ४०||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'उदउल्लेण ' उदकार्येण सचित्तजलाद्रेण 'हत्येण' हस्तेन उदकलेपाद् यावद् आर्द्रः करस्तावद् तादृशेनैव करेण 'मत्तेण वा' मात्रेणमृत्तिकादिनिर्मितलघुपात्रेण वा 'दबीए वा' दव्य - 'कडछो' इति भाषाप्रसिद्धया वा 'भायणेण चा' भाजनेन - कांस्यादिपात्रेण वा । हस्तवत् - अमत्र - दव - भाजनेषु विशेष्येषु सचित्तोदकाईपदं प्रत्येकमभिसंबद्ध्यते । तादृशेभ्यो हस्तादिभ्य 'असणं वा ४' अशनादिचतुर्विधमाहारम् 'पडिग्गा हेइ' प्रतिगृह्णाति आदत्ते, 'पडिग्गार्हतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति, तस्याज्ञाभद्गादयो दोषाश्च भवन्ति ॥ सू० ४० ॥
=
सूत्रम् -- एवं ससणिद्धेण० २ ॥ सू०४१ ॥ ससरक्खेण ०३ ॥ सू०४२|| ||मट्टियासंसट्टेण०४ ॥ सू०४३ || ओसा० ५ ॥ सू०४४॥ लोण० ६ || सू०४५ || हरियाल० ७ || सू०४६ || मणोसिला ० ८ ॥ सू०४७ ॥ वण्णिय० ९ || सू०४८|| गेरुय० १० ॥ सू०४९ ॥ सेठिय० ११ ॥ सू०५० ॥ हिंगुलुय० १२ || सू०५१|| अंजण० १३ || सू०५२ | लोद्ध० १४ ॥ सू५३ ॥ कुक्कुस ० १५ || सू०५४|| पिठ्ठ०१६ || सू० ५५|| कंद ० १७ ॥ [सू०५६ ॥ मूल० १८ ||सू०५७|| सिंगबेर० १९ ॥ सू० ५८ ॥ पुप्फग० २० ॥ ०५९ ॥ कुट्टगसंसट्टेण वा २९, एगवीसभेएण हत्थेण वा मत्तेण वा दव्वी वा भायणेण वा असणं वा ४ पडिग्गाहेइ पडिग्गार्हतं वा साइज्जइ ॥सू०६० ॥