________________
निशीथसूत्रे १२० तत्राऽधिकरणं नाम-अधिक्रियतेऽधोगती पात्यते आत्माऽनेनेत्यधिकरणं कलहः, तथाभूतानि-अधिकरणानि 'उप्पाएइ' उत्पादयति- नवीनक्लेशानुत्पादयति 'उप्पाएन्तं वा साइज्जई' उत्पादयन्तं वा नवीनमधिकरणम्, स्वदतेऽनुमोदते, स प्रायश्चित्तभाग भवति तस्याज्ञाभङ्गादयोऽपि दोषा भवन्ति ।। सू० २७॥
अत्राह भाष्यकारः-- भाष्यम्-दुहाहिगरणं वृत्तं, दव-भावप्पभयो ।
दवे चउन्विहं णेज्ज, भावे सत्थाणुसारी॥ छाया-द्विधाऽधिकरणं प्रोक्तं द्रव्य-भाव-प्रमेवतः ।
द्रव्ये चतुर्विधं शेयं भावे शास्त्राऽनुसारतः।। अवचूरिः-'दुहाहिगरणं' इत्यादि । यदिदमधिकरणं कथितं तद् द्रव्य-भावप्रमेदतो द्विधा द्विप्रकारकं प्रोक्तम् । तत्र द्रव्यतोऽधिकरणं चतुर्विधम् , तद्यथा-निर्वर्तनाधिकरणम् १, निक्षेपाधिकरणम् २, संयोजनाधिकरणम् ३, निसर्जनाधिकरणम् ४ चेति । तत्र-निर्वर्तनाऽधिकरणं' द्विविधम्-मूलोत्तरमेदात् । तत्र-मूलनिर्वर्तनाऽधिकरणं पञ्चविधम् , तानि-औदारिकादिशरीरपञ्चकस्य निर्वतनरूपाणि पञ्च, तान्यपि एकैकं संघातकरणशाटकरणतदुभयकरणभेदात् त्रिविधम् । तत्र-संघातकरणं-पुद्गलानां पिण्डीकरणम् । शाटकरणं पुद्गलानां परिशाटनम् | उभयकरणम्-संघात-परिशाटोभयकरणम् । एतद्विपयेऽधिकरणम् । तत्र-तैजसकार्मणरूपे शरीरद्वये सर्वसंघातकरणं न भवति, अनादित्वात् , शेपेषु त्रिपु शरीरेपु-औदारिक-वैक्रिया-ऽऽहारकरूपेषु संघातपरिशाट-तदुभयरूपं त्रयमपि निवर्तनाधिकरणं भवति, तत्र स्थितिः संघात-परिशाटयोः प्रत्येकमेकसामयिकी, तदुभयस्यानियता स्थितिः, यथा-संघात दौ, परिशाटोऽन्ते भवति । अत्रापूपदृष्टान्तःयथा-अपूपः, स च घृते प्रक्षिप्तः प्रथमसमये एकान्तेन घतग्रहणं करोति, द्वितीयादिसमयेषु घृतं गृह्णाति मुञ्चति च, एवं यथा लोहकारस्तप्तमायसं जले प्रक्षिपति तदा तत् प्रथमसमये एकान्तेन जलादानं करोति, द्वितीयादिसमयेपु गृह्णाति मुञ्चति च । एवं त्रिपु औदारिकादिशरोरेपु प्रथमसमये ग्रहणं, द्वितीयादिसमयेषु संघात-परिशाटो द्वावपि भवतः । तैजसकार्मणयोः सार्वकालिकः संघातः परिशाटश्च, तयोरनादित्वात् । पञ्चानामपि सर्वशाटोऽन्ते भवति । इदं मूलनिवर्तनाधिकरणम् । अथवा-औदारिक-वैक्रियाऽऽहारकेति त्रयाणां शरीराणां मूलकारणानि अष्टौ-शिरः १, उरः, २, उदरं ३, पृष्ठिः ४, बाहुद्वयम् ५, ६, उरुद्वयं ७-८ चेति । शेषमुत्तरकरणम् । अथवाआधेषु औदारिकवैक्रियाहारकरूपेषु-त्रिपु शरीरेषु कर्णवेधकरणं, कर्णच्छेदकरणं त्रिफलादिघृतादिना वर्णकरणं चेत्युत्तरकरणम् । अथवा त्रिपु आधेपु शरीरपु निर्वर्तनाधिकरणं भवति । तत्रऔदारिकम्-एकेन्द्रिय-द्विन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रिय-भेदात्पञ्चविधम् । तत्तच्छरीरनिवर्त्तन