________________
-
11.
चूणिभाष्यावरिः उ. ४ सू०-२७ अनुत्पन्नाधिकरणोत्पादननिषेधः ११९ रोगादिकारणेष्वागच्छन्ति तस्मिन् मार्गे साध्वीनां गमनागमनमार्गे 'दंडग वा' दण्डक वा, तत्र दण्डो नाम-यं हस्ते निधाय वृद्धत्व-रोगादिकारणे साधुर्गच्छति स तम् 'लट्ठियं वा यष्टिको वा, यष्टिका लघुर्यः प्रतलो दण्डश्चलनसहायभूतः, साऽपि कारणवशादेव गृह्यते, तां वा 'रयहरणं वा' रजोहरणम् 'मुहपत्तियं वा' सदोरकमुखवत्रिकाम् , प्रक्षालिता या शुष्ककरणार्थ स्थाप्यते 'अण्णयरं वा उवगरणजायअन्यतरद् वा उपकरणजातम् प्रमाजिकादि, अन्यतरपदग्रहणात्-औधिकमौपग्रहिकं चेति द्विविधमप्युपकरणजातं गृह्यते । तत्र-औधिक सामान्यं वस्त्रपात्रादिकम , भोपग्रहिक-रोगादिकारणेऽल्पकालार्थ यद् गृह्यमाणं शय्यासंस्तारकपीठफलकादिकमुपकरणजातं, तत् 'ठवेइ' स्थापयति, 'ठवेंतं वा साइज्जई' स्थापयन्तं वा स्वदते। यो भिक्षुः पाक्षिकक्षमापनारोगादिकारणेन साधूनामुपाश्रये समागच्छन्तीनां साध्वीनां मार्गे पूर्वोत्तोपकरणादिकं स्थापयति स प्रायश्चित्तभाग् भवति ।। सू० २६||
ननु साधोः रजोहरणादिकं सर्वदैव सार्धं ग्राह्यत्वेन सूत्रे कथितं ततश्च तस्य मार्गे स्थापनसंभावना कुतः, यस्य सम्भावनैव नास्ति तस्य निषेधः सुतरां निरर्थकः ? इत्याशङ्कयाह भाष्यकार:भाष्यम्-चिट्ठतो पडिलेहतो, कुणंतो वावि लुचणं । .
मिसेणं वाऽह वत्थूणं, णिक्खेवस्स हि संभवो । छाया-तिष्ठन् प्रतिलिखन् कुर्वन् वाऽपि लुञ्चनम् ।
मिषेण वाऽथ वस्तूनां निक्षेपस्य हि सम्भवः । अवचूरिः-'चिठंतो' इत्यादि । मार्गे तिष्ठन् वा साधुः कदाचित् रजोहरणं निक्षिपेत् , भक्तपानादिकं प्रतिलिखन् वा, अथवा-लुञ्चनमप्यात्मनः शिरसः कुर्वन् मार्गे रंजोहरणादिकं निक्षिपेत् । अथवा-मिषेण-केनचिद् व्याजेन उपहासाधर्थ वा वस्तूनां रनोहरणाधुपकरणानां निक्षेपस्य सम्भवः । सम्भाव्यते-एभिः कारणैर्मार्गे रजोहरणार्दीनां निक्षेपः । इत्थं मार्गे निक्षिपतः साधोः, रजोहरणादिकं निक्षिपन्तं वा अनुमोदमानस्य साधोः प्रायश्चित्तमाज्ञाभंङ्गादयों दोषाश्च भवन्ति ॥ सू०२६॥
सूत्रम्-जे भिक्खू णवाई अणुप्पण्णाई अहिंगरणाई उप्पाएंई उप्पाएंतं वा साइज्जइ ॥ सू० २७॥ छाया-यो भिक्षुः नवानि-अनुत्पन्नानि अधिकरणानि-उत्पादयति, उत्पादयन्तं
वा स्वदते ॥ सू० २७॥ . चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः, ‘णवाई नबानि-नवीनानि-अपवाणि 'अणुप्पण्णाई अनुत्पन्नानि-तत्कालेऽविद्यमानानि 'अहिंगरणाई अधिकरणानि-कलहान् ,