________________
११८
निशीथसूत्र
अत्राह भाष्यकार:भाष्यम् -अकारणे जो विहिणा, कारणेऽविहिणा विसे ।
अकारणे अविहिणा, कारणे विहिणा जई ॥ एत्य भंगतिगे दोसो, एसो सत्यविणिच्छओ ।
कारणे विहिणा एयं, चउत्थं भंगमायरे ॥ छाया--अकारणे यो विधिना कारणेऽविधिना विशेत् ।
अकारणेऽविधिना कारणे विधिना यतिः ॥ अत्र भंगत्रिके दोष एप शास्त्रविनिश्चयः ।
कारणे विधिनैतं चतुर्थ भंगमाचरेत् ॥ अवचूरि:-'अकारणेइत्यादि । सूत्रेऽविधिना श्रमण्या उपाश्रये प्रवेशो वारितः। तत्र प्रवेशे चत्वारो भङ्गा भवन्ति तथाहि-अकारणे-विधिना, इति प्रथमः १, कारणे-विधिना, इति द्वितीयः २, अकारणे-ऽविधिना, इति तृतीयः ३, कारणे-विधिना, इति चतुर्थः ४ । अत्र यदि भगत्रयमाश्रित्य प्रतिशेत् तदा दोपः प्रायश्चित्तमिति शास्त्रविनिश्चयः शास्त्रनिर्णयः, तस्मात्कारणात् , 'कारणे विधिना' एत चतुर्थ भङ्गमाचरेद्भिक्षुः । उपाश्रये स्थानत्रयं भवति, तच्चेत्थम्-अग्रभागद्वारमेकम् १, उपाश्रयमध्यं द्वितीयम् २, श्रमण्या आसन्नस्थानं तूंतीयम् ३ । एतेपु त्रिवपि स्थानेषु नैपेधिकों 'निसीहि-निसीहि' इत्युच्चारणं विना अंमण्या उपाश्रये प्रविशतः श्रमणस्य प्रायश्चित्तम् ।
अथ यदि-श्रमणोवसतेर्मूलद्वारसमीपे बहिस्तिष्ठेत् तदापि प्रायश्चित्तम् , यद्यन्तमध्यं वा प्रविशति तदापि प्रायश्चित्तमापद्यते, इति' श्रुत्वा शिष्यः पृच्छति
हे गुरो ! यदि श्रमणः श्रमण्या उपाश्रयं गच्छति तदा तु तत्र न भवति किञ्चित्प्राणातिपातादिकम् , तथाप्यधुना केन कारणेन प्रायश्चित्तं कथ्यते ? कस्मात् कारणात् मूलद्वारस्य बहिभांगेऽपिं तिष्ठतः प्रायश्चित्तम् ? केन वा कारणेन द्वारस्य मध्यं गच्छतोऽन्तर्गच्छतश्च प्रायश्चित्तम् ? इति प्रश्नः । आचार्य उत्तरं प्राह-तत्र विह्वलादयो बहवो दोपाः, तथाहि-'सुखासीना कदाचित्स्यात्-प्रावृताऽवृता यदि वा, नैधिकी विना यान्तं दृष्ट्वा सा विहला भवेत् । एवमन्येऽपि दोषा भवेयुरिति ।। सू०२५॥
सूत्रम्-जे भिक्खू णिग्गंथीणां आगमणपहंसि दंडगं वा लठियं वा स्यहरणं वा मुहपत्तियं वा अण्णयरं वा उवगरणजायं ठवेइ ठवतं वा साइज्जइ ।। सू० २६॥
- छाया-यो भिक्षुः निर्ग्रन्थीनामागमनपंथे दण्डक वा यष्टिकां वा रजोहरण वा मुखवस्त्रिको वा अन्यतरद् वा उपकरणजातं स्थापयति स्थापयन्तं वा स्वदते सू० २६।। - चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'णिग्गंथीणं' निम्रन्थीनाम्साध्वीनाम् 'आगमणपहंसि' आगमनपथे, येन पथा श्रमण्यः साधोरुपाश्रयं पाक्षिकक्षमापना