________________
चूर्णिभाष्यावद्भिः उ० ४ सू० २७-२८ व्यपशमिताधिकरणस्य पुनरुदीरणनिषेधः १२१ रूपं निवर्तनाधिकरणम् । उक्तञ्च भगवतीसूत्रे षोडशशतकस्य प्रथमोद्देशे-"जीवे णं भंते ! ओरालियसरीरं निव्वत्तेमाणे अहिगरणी अहिगरणं ? गोयमा !अहिगरणीवि अहिगरणंपि"। जोवः खलु भदन्त ! औदारिकं शरीरं निवर्तयन् अधिकरणी अधिकरणम् ? गौतम ! अधिकरणी अपि, अधिकरणमपि, । इति च्छाया। ततः जीवोऽधिकरणी, शरीरमधिकरणम् । गतं निर्वर्तनाधिकरणं प्रथमम् । द्वितीयं-निक्षेपाधिकरणम् , तत्र निक्षेपो नाम पात्रादीनामधः स्थापनम् , तद्विषये यदधिकरणं, तच्चतुर्विधम् , तत्र-प्रमार्जनायाः प्रतिलेखनायाश्चाऽकरणे द्वौ २, तथैवतयोरेव प्रतिलेखन-प्रमाणनयोरविधिकरणे द्वौ २, एवं निक्षेपणाधिकरणस्य चत्वारो भेदाः।
___ तृतीयं-संयोजनाधिकरणम्-संयोजना-संमेलनम् , तद्विषयेऽधिकरणम् , तद् द्विविधम्-भक्तसंयोजनाधिकरणाम् १, उपधिसंयोजनाधिकरणं च २ । तत्र भक्तसंयोजनाधिकरणम्-सरसभोजनेऽरसभोजनस्य, अरसे सरसस्येत्यादिरूपेण संयोजनम् तत्र कलहोऽधिकरणम् ।
चतुर्थ-निसर्जनाधिकरणम्-निसर्जन-निष्कासनं प्रदानम् , तद्विषयकमधिकरणम् । तत् त्रिप्रकारकम् , तद्यथा-सहसानिसर्जनम् १, प्रमादनिसर्जनम् २, अनाभोगनिसर्जनम् ३, क्रमेण त्रयो भेदाः । तत्र-सहसानिसर्जनमाकस्मिकम् । प्रमादनिसर्जनम् -कर्त्तव्याऽकर्तव्याऽनवधारणे निःसारणम् । अनाभोगनिसर्जनम् अज्ञानवशात् निस्सारणम् ।
पूर्ववर्णितेपु मध्ये निर्वर्तनाऽधिकरणं विशेषतः पूर्व निरूपितम् । अथ निक्षेपाधिकरणं विविच्यते-निक्षेपाधिकरणं द्विविधम्-लौकिक लोकोत्तरिकंच । तत्र लौकिकमनेकप्रकारक-हल-मुसल. मृगवन्धन्यादीनां स्थापनम् , लोकोत्तरिकं वस्त्रपात्रादीनां स्थापनम् , तच्च सप्तविधम् , तद्यथा-'न प्रत्युपेक्षते न प्रमार्जयति १, न प्रन्युपेक्षते-प्रमार्जयति २, प्रत्युपेक्षते न प्रमाजयति ३, दुष्प्रत्युपेक्षते दुष्प्रमार्जयति ४, दुष्प्रत्युपेक्षते सुप्रमार्जयति ५, सुप्रत्युपेक्षते-दुष्प्रमार्जयति ६, यस्तु-सप्तमो भङ्गःसुप्रत्युपेक्षते सुप्रमार्जयति ७, एप नाधिकरणम्, तस्य शुद्धत्वात् । यद्वा--अशनादीनामपावृतत्वेन स्थापनं तदपि निक्षेपाधिकरणम् । इति निक्षेपाधिकरणम् ॥
__ अथ संयोजनाधिकरण प्रारभ्यते--संयोजनाधिकरणं द्विविधम् -लौकिकं १, लोकोत्तरिक च २ । तत्र -लौकिकं तद् यद् रोगादिकारणे नानाविधौषधीनां सम्मेलनम् , विषगगदीनां निष्पत्तिनिमित्त सम्मेलनम् । लोकोत्तरिक संयोजनाधिकरणं द्विविधम् -आहारे-उपारणे च २। तत्राहारेऽपि द्विविधम्--अन्तर्बहिश्च २ । तत्रान्तर्वसतौ यत् संयोजनाधिकरणं तत्-त्रिविधम्--भाजने १, हस्ते २, मुखे च ३। तत्र भाजने क्षीरखण्डादीनां सम्मेलनम् , हस्ते-गुडादिकस्य । मुखे प्रथम मण्डादिकं प्रक्षिप्प पश्चात् गुडादिकं प्रक्षिपेत् ।
__ बहिस्तत्-यद्भिक्षामटन् ययेन सह संयुज्यते तत्तेन सह संयोजयेत् । यत्सामान्य दुग्धं, घनीभूता दुग्धविकृतिश्च (मावा) इति लोके प्रसिद्धा, यदि लभ्यते तत्र विचारणा जायेत
१६