________________
चूर्णिभाष्यावचूरिः उ०.४ २०२१-२३ कृत्स्नौषधेराचार्याद्यदत्तस्य चाहारस्य निषेध ११५
अवचूरिः-'अत्तीकरेई' इत्यादि । यो हि भिक्षुः-'निवाई' नृपादि अर्थात्-राजानम् , राजारक्षकम् , नगरारक्षकम् , निगमारक्षकम् , सर्वारक्षकं वा, यं कमप्येकमात्मीकरोति, च पुनःअर्चीकरोति, यदि वा-अच्छीकरोति, अथ कदाचित् अर्थीकरोति । अत्राऽऽत्मीयकरणादौ सर्वत्रापि द्विधात उभयथापि- अनुकूल-प्रतिकूलादिनोपसर्गदोषाः संभवेयुः, यथाऽङ्गारः शीतो वा उष्णो वा(ठण्टा-कोलसा) (जलता-कोलसा) करस्पृष्टः सन् शीतोष्णाभ्यां गुणदोषाभ्यामुपसर्गकर एव भवति, यदा शीतस्तदा करं कृष्णायते यदोष्णो जाज्वल्यमानस्तदा करं दहति । एवमेव-राजा दयोऽपि कुर्युः, तस्मात् -यतिमध्यस्थभावे वर्तमानो नैतेषामुपकारमपकारं वा कुर्यात् । इति सूत्रे-विंशतिसूत्रसमुदाये गणधरादयो वदन्ति ।। सू० २०॥
सूत्रम्--जे भिक्खू कसिणाओ ओसहीओ आहारेइ आहारेंत वा साइज्जइ ॥ सू० २१॥
छाया-यो भिक्षुः कृत्स्ना ओपधीराहरति-आहरन्त वा स्वदते ॥सू० ॥२१॥ .
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः ‘कसिणाओ ओसहीओ' कृत्स्नाः सम्पूर्णा अखण्डिताः द्रव्यतो भावतश्च ओषधयः शालिगोधूमादयः, तत्र--द्रव्यतोऽखण्डिताः स्वरूपेणाऽवस्थिताः, भावतः सचित्ताः, ताः 'आहारेइ' आहरति, 'आहारेंतं वा साइज्जई' आहरन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । अत्र कृत्स्नौषधीनां द्रव्यभावभेदेन चत्वारो भङ्गा भवन्ति, तथाहि--द्रव्यतोऽखण्डिताः भावतः खण्डिताः इति प्रथमो भगः १, द्रव्यतः खण्डिता भावतोऽखण्डिताः, इति द्वितीयो भङ्गः २, द्रव्यतोऽखण्डिता भावतोऽखण्डिताः, इति तृतीयो भङ्गः ३, द्रव्यतः खण्डिताः, भावतश्च खण्डिताः, इति चतुर्थो भङ्गः ४ । तत्र--प्रथमचतुर्थौ भगौ शुद्धौ । सू०२१॥
सूत्रम्-जे भिक्खू आयरियउवज्झाएहिं अदत्तं आहारेइ आहारतं साइज्जइ ॥ सू० २२॥ 'छाया-यो भिक्षुराचार्योपाध्यायैरदत्तमाहरति आहरन्तं वा स्वदते ॥ सू० २२॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आयरियउवज्झाएहि' आचायोपाध्यायः-उपलक्षणाद्रत्नाधिकैर्वा 'अदन' अनवतीर्णमशनादिकम् 'आहारेइ' आहरति, 'आहारेत वा साइज्जइ' आहरन्तं वा स्वदते स प्रायश्चित्तभाग् भवति ॥२२॥ भाष्यम्-आयरियाइअदिण्णं, असणाइ चउन्विहं ।
वत्थ कंवल-पत्ताई, कयावि नेव गेहए ॥