________________
११४
परिषहा भवन्ति । राज्ञा सहातिपरिचर्यकरणेऽनुकूलप्रतिकूलोपसर्गसंभवेन प्रसङ्गोऽपि तस्माद्राज्ञोऽतिप्रशंसनं न कर्त्तव्यमिति ॥ सू० २||
निशीथसूत्रे
संयमात्मविराधनादि
सूत्रम् - जे भिक्खू रायं अच्छी करेइ अच्छी करेंतं वा साइज्जइ ॥ सू०३ ||
छाया - यो भिक्षुः राजानमच्छीकरोति, अच्छीकुर्वन्त वा स्वदते ॥सू० ३॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'राय' राजानम् 'अच्छी करेइ' अच्छी करोति, अच्छो निर्मलस्तं करोति अच्छीकरोति, औषधयन्त्रमन्त्रादिदानेन रुग्णं नीरोगं करोति । 'अच्छीकरेंतं वा साइज्जइ' अच्छीकुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ३ ||
1
सूत्रम् — जे भिक्खू रायं अत्थी करेइ अत्थी करेंतं वा साइज्जइ ॥ सू० ४ ||
छाया - यो भिक्षुः राजानमर्थीकरोति अर्थीकुर्वन्त वा स्वदते || सू० ४ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'राय' राजानम् अत्थीकरेइ' अर्थीकरोति यावता व्यापारेण राजा श्रमणेऽर्थी प्रयोजनवान् भवेत् तथा करोतीत्यर्थीकरोति । तीतानागतवस्तुनो ज्ञाताऽयं श्रमणो मय्यनुकूलो मां मन्त्रादि दास्यतीत्याशावन्तं राजानं स्वसमीपे समागमनाय प्रयोजनवन्तं करोत्यर्थीकरोतेरर्थः । ' अत्थी करेंतं वा साइज्जइ' अर्थीकुर्वन्तं वाऽन्यं स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति, तस्याज्ञाभङ्गादयो दोषा भवन्ति ॥ सू० ४ ॥ एवं-'रायारक्खयं' राजारक्षकं राज्ञ आत्मरक्षकम् - 'अत्तीकरेइ ५, अच्चीकरेइ ६, अच्छीकरेइ ७, अत्थीकरेइ ८, इति चत्वारि सूत्राणि ॥सू० ८॥ नगरारक्षकं नगरपालकं राजपुरुषम्, अत्रापि चत्वारि सूत्राणि ॥ सू० १२॥ निगमारक्षकं, तत्र निगमः - व्यापारप्रधानस्थानं, तस्याधिष्ठातारम् । अत्रापि चत्वारि सूत्राणि ॥सू० १६ ॥ एवं 'सन्चारक्खयं' सर्वारक्षकम् सर्वान् राजारअकादारभ्य निगमारक्षकपर्यन्तान् सर्वान्, आ पामराः प्रजा वा आ - समन्ताद् रक्षति य स सर्वारक्षकः प्रधानोऽधिकारी, तम् । अत्रापि चत्वारि सूत्राणि ||२०|| 'अत्तीकरे १, अच्चीकरे २, अच्छीकरे ३, अत्थीकरेइ ४' इत्येतद्विषयाणि प्रत्येकं चत्वारि चत्वारि सूत्राणि राजारक्षकादारम्य सर्वारक्षकपर्यन्तानां विषये व्याख्येयानि राजसूत्रादारम्य सर्वारक्षकसूत्रपर्यन्तानि पञ्चापि सूत्राणि आत्मीकरणादिकमधिकृत्यैकगमानि सन्तीति ॥ सू० ५-२० ॥
एवमेव ' नगरारक्खयं' एवमेव 'णिगमा रक्खयं'
"
भाष्यम् – अत्ती करेइ य णिवाद कयाड अच्ची, अच्छीकरेs जइ वाss करेज्ज अत्थी । सव्त्रत्थ एत्थ दुइओ उवसग्गदोसा, तम्हा जई नहि करेज्ज यंति त्ते || छाया - आत्मीकरोति च नृपादि कदाचिदर्ची अच्छीकरोति यदिवाऽथ कुर्यादर्थी । सर्वत्राऽत्र द्विघात उपसर्गदोषाः तस्माद्यंतिनंहि कुर्याद्वदन्ति सूत्रे ॥