________________
॥ चतुर्थोदशकः ॥ व्याख्यातस्तृतीयोदेशकः, तदनु-अवसरसङ्गत्या चतुर्थोदेशकः प्रारभ्यते-- अथाऽस्य चतुर्थोद्देशकीयादिसूत्रस्य तृतीयोदेशकीयान्तिमसूत्रेण सह कः सम्बन्धः । इति जिज्ञासायामाह भाष्यकार:भाष्यम्-परिद्वावेउमुच्चारं, वसहीओ बर्हि गयं ।
गिव्हिज्जा जइ मं राया, एवं तं ण वसं नए ॥ छाया-परिष्ठापयितुमुच्चारं, वसतितो वहिर्गतम् ।
गृहीयाद्यदि मां राजा, पवंत न वशं नयेत् । अवचूरिः-'परिहावेउ०' इत्यादि । तृतीयोदेशकान्तिमसूत्रे-उच्चारप्रस्रवणयोः परिष्ठापनं कथितम् । तत्र-रात्रौ उच्चारम्-उपलक्षणात् , प्रस्रवणादिकं परिष्ठापयितुं यधुपाश्रयाद् बहिर्गतं मां 'चौरोऽयं विचरती'ति शङ्कया गृह्णीयात् गृहीतोऽदण्ड्योऽपि तत आत्मानं मोचयितुं नृपाश्रयःराज्ञा सह परिचय आवश्यकः,एवम् इति मत्वा तं राजानं न वशं नयेत् राजानं वशीकत्तुं न यतेतेति भावः । य एवं कुर्यात् स प्रायश्चित्तभागी भवतीत्यस्मिन्नुदेशके प्रतिपादयिष्यते । अयमेव सम्बन्धः पूर्वापरोद्देशकस्त्रयोः । तदनेनसम्बन्धेनायातस्याऽस्योदेशकस्य प्रथमं सूत्रमाहसूत्रम्-जे भिक्खू रायं अत्तीकरेइ अत्तीकरतं वा साइज्जइ ॥सू० १॥ छाया-यो भिक्षुः राजानमारमीकरोति आत्मीकुर्वन्त वा स्वदते ॥सू० १॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'रायं अत्तीकरेइ' राजानं तत्रत्यमण्डलाधिपतिमात्मीकरोति स्वाधीनं नयति, 'अत्तीकरेंतं वा साइज्जइ' आत्मीकुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्ती भवति । तथा-तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति । तत्र-राज्ञ आत्मीकरणं द्विप्रकारकम्-प्रत्यक्षं, परोक्षं च। तत्र-तत् प्रत्यक्षं यत्स्वयमेव करोति १, परोक्षं तु पुनरन्येन अमात्यादिना कारयति । यत्र स्वकीयप्रयत्नेन स्वयमेव गत्वा राज्ञा सह परिचयकरणं तत् प्रत्यक्षम् । परोक्षमन्यद्वारा राज्ञा सह सम्बन्धसंपादनमिति ॥सू० १ ॥ सूत्रम-जे भिक्खू रायं अच्चीकरेइ अच्चीकरेंतं वा साइज्जइ॥सू०२॥
छाया-यो भिक्षुः राजानमर्चीकरोति, अर्चीकुर्वन्त वा स्वदते ॥सू० २॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'राय' राजानम् 'अच्चीकरेइ' अर्चीकरोति-शौर्यादिगुणवर्णनेन प्रशंसति, तद् अर्चीकरणं द्विविधम्-सदसद्गुणवर्णनभेदात् । पुनरपि एकैकं द्विविधम् -प्रत्यक्षम् १ परोक्ष च २ । तत्र-प्रत्यक्षं स्वयमेवात्मना गुणवर्णनम् १, परोक्षं तु परद्वारा गुणवर्णनम् २ । तथा-'अच्चीकरेंतं वा साइज्जइ' अर्चीकुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागू भवति । तस्याज्ञाभङ्गादयो दोषा भवन्ति । राजगुणवर्णनेनाऽनुकूलाः प्रतिकूला वा
१५