SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ११६ छाया - आचार्याद्यदत्तमशनादि चतुर्विधम् । वस्त्र - कम्बल - पात्रादि कदापि नैव गृहीयात् ॥ अवचूरिः -- 'आयरियाइ' इत्यादि । अशनादिकं चतुर्विधमाहारम्, तथा - वस्त्रकम्बलपात्रादि, आदिशब्दादोषध - भैषज्यादिकं च सर्ववस्तुजातम्, आचार्योपाध्यायादिनाऽदत्तं मुनिः कदापि काले नैव गृह्णीयात् । यदि गृहीयात्तदा प्रायश्चित्तभाग् भवेत् ॥ सू० २२॥ निशीथसुत्रे सूत्रम् — जे भिक्खू आयरियउवज्झाएहिं अविदिण्णं विगई आहाts आहार वा साइज्जइ ॥ सू० २३ ॥ छाया -यो भिक्षुः आचार्योपाध्यायैः अविदत्तां विकृतिम् आहरति अहरन्तं वा स्वदते ॥ सू० २३ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आयरियउवज्झाएहिं' आचार्योपाध्यायैः उपलक्षणाद्वत्नाधिकैर्वा, 'अविदिणं' अविदत्तामननुज्ञाताम् 'विगई' विकृति-दधिदुग्धादिरूपाम् 'आहारेइ' आहरति- भुङ्क्ते आहारेंतं वा साइज्नइ' आहरन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति, तस्याज्ञाभङ्गादयो दोषा भवन्ति ॥ सू० २३ ॥ अत्राह भाष्यकारः भाष्यम् - विगई य घयं, तेल्लं, दहिदुद्धगुडाइयं । मुंजे अविदिण्णं जो, पायच्छित्तं स पावई ॥ छाया - विकृतिश्च घृतं तैलं, दधि- दुग्ध- गुडादिकम् । भुङ्क्तेऽविदत्ते यः प्रायश्वित्त स प्राप्नोति ॥ अवचूरिः - ' विगई' इत्यादि । सूत्रे विकृतिश्च घृतं तैलं, दधिदुग्धगुडादिकं प्रोच्यते । आदिपदान्मधुरादि, तद्विकृतिपदानीतं सर्वमपि - आचार्योपाध्यायरत्नाधिकाद्यैरविदत्तं सत् यो यतिर्भुङ्क्ते स प्रायश्चित्तं प्राप्नोति ॥ सू० २३|| सूत्रम् — जे भिक्खू ठेवणकुलाई अजाणिय, अपुच्छिय, अगवेसिय पुव्वामेव पिंडवायपडियाए अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ ॥ सू० २४ ॥ छाया - यो भिक्षु स्थापनाकुलानि भचात्वा, अपृष्ट्वा, अगवेपयित्वा पूर्वमेव पिण्डपातप्रतिज्ञया अनुप्रविशति, अनुप्रविशन्तं वा स्वदते ॥ सू० २४ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'ठवणकुलाई' स्थापनाकुलानि, -- तत्र स्थापनाकुलम् यत्र साव्वादिनिमित्तमन्नपानादिकं स्थाप्यते तत् स्थापनाकुलम् 'अजाणिय'
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy