SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ २१० निशीथसूत्र माणियामु वा' परिभुज्यमानासु-व्यवह्रियमाणासु अपरिभुज्यमानासु-अव्यवह्रियमाणासु वा भूमिपु 'उच्चारपासवर्ण परिहवेइ' उच्चारप्रस्रवणं परिष्ठापयति, परिहवेतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागू भवति, संयमात्मविराधनालोकनिन्दादिदोपसगावात् ।। सू०७७॥ सूत्रम्--जे भिक्खू उंबरवच्चंसि वा नग्गोहवच्चंसि वा आसत्थवच्चंसि वा उच्चारपासवणं परिहवेइ परिहवेतं वा साइज्जइ ॥सू० ७८|| छाया- यो भिक्षुः उदुम्बरवर्चसि वा न्यग्रोधवर्चसि वा अश्वत्थवर्चसि वा उच्चारप्रनवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते । सू० ७८।। चूर्णी- 'जे भिक्खू इत्यादि । 'जे भिक्खू यो भिक्षुः 'उंवरवच्चंसि वा' उदुम्बरवर्चसि वा, उदुम्बरो वृक्षविशेषः 'उमर' इति 'गुलर' इति वा लोके प्रसिद्धस्तस्य वर्चसि प्रत्यासन्नप्रदेशे यत्र गिरितटे फलानि पतन्ति पात्यन्ते पुञ्जीक्रियन्ते वा, तस्मिन् प्रदेशे, 'नग्गोहवच्चंसि वा' न्यग्रोधवर्चसि वा, न्यग्रोधो वटवृक्षस्तस्यासन्नप्रदेशे यत्र फलानि पतन्ति पात्यन्ते वा तत्र, 'आसत्यवच्चंसि वा' अश्वत्थवर्चसि वा तत्राऽश्वत्थः पिप्पलवृक्षस्तत्फलपतन-पातनप्रदेशे, 'उच्चारपासवर्ण' उच्चारप्रसवणं 'परिटवेइ' परिष्टापयति 'परिहवेतं वा साइज्जई' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ।। सू० ७८॥ सूत्रम्--जे भिक्खू इक्खुवर्णसि वा सालिवणंसि वा कुसुंभवणंसि वा कप्पासवणंसि वा उच्चारपासवणं परिहवेइ परिहवेंतं वा साइज्जइ ॥ सू०७९॥ छाया-यो भिक्षुः इझुवने वा शालिवने वा कुसुम्भवने वा कार्पासवने वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ७९॥ चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'इक्खुवर्णसि वा' इक्षुवने वा, इक्षुः-'सेलडी'-तिभापाप्रसिद्धः, तस्य वन-क्षेत्रं, तत्र | यथा-वने वृक्षा निविडाः सघनाः तद्वरक्षेत्रे-इक्षणां सघनत्वात् क्षेत्रे वनत्वस्योपचारः, तथा च एतादृशेक्षुवने वा 'सालिवर्णसि वा' शालिवने वा, शालिः-व्रीहिस्तस्य वनं तत्र 'कुसुंभवणंसि वा' कुसुम्भवने वा तत्र-कुसुम्भ-रक्तरगसमुत्पादकपुष्पविशेषः 'कुसुंबा' इति भाषाप्रसिद्धः, तस्य वनं क्षेत्रं तत्र 'कप्पासवर्णसि वा' कार्पासवने वा कार्यासक्षेत्रे 'उच्चारपासवणं परिहवेइ' उच्चारप्रस्रवणं परिष्ठापयति, 'परिहवेतं वा साइज्जई' परिष्ठापयन्तं वा स्वदते स प्रायश्चितभाग् भवति ॥ सू० ७९॥ सूत्रम्-जे भिक्खू डागवच्चंसि वा सागवच्चंसि वा मूलगवच्चंसि वा कोत्थुभरिखच्चंसि वा खाखच्चंसि वा जीरयवच्चंसि वा दमणय
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy