________________
चूर्णिक उ० ३ सू० ८०-८३ उच्चारादीनामस्थाऽनुगतसूर्यकाले च परिष्ठापननि० १११ वच्चंसि वा मरुयवच्चंसि वा उच्चारपासवणं परिहवेइ परिठवेंतं वा साइज्जइ ॥ सू० ८०॥
छाया-यो भिक्षुः डागवसि वा शाकवर्चसि वा मूलकवर्चसि वा कोत्थुम्भरिवर्चसि वा क्षारवर्चसि वा जीरकवर्चसि वा दमनकवर्चसि वा मरुकवर्चसि वा. उच्चारप्रस्रवणं परिष्ठापयति, परिप्ठापयन्तं धा स्वदते ॥ सू० ८०॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यो भिक्षुः 'डागवच्चंसि वा' डागवर्चसि वा-डागः पनशाकस्तस्य वर्चसि तदासन्नस्थाने यत्र पत्रशा कः पुञ्जीक्रियते तत्स्थाने 'सागवच्चंसि वा' शाकवर्चसि वा-शाको वृन्ताकादिस्तस्य स्थाने 'मूलगवच्चंसि वा' मूलकवर्चसि वा मुलकं 'मूली'-तिलोकप्रसिद्धं, तस्य क्षेत्रे 'कोल्युंभरिवच्चंसि वा' कोत्थुम्भरिवर्चसि वा-कोत्थुम्भरि
Cन्याकम् 'घाना' 'कोथमी' इति भाषाप्रसिद्धः, तस्य पुजे 'जीरयवचंसि वा' जीरकवर्चसि यत्र जोरकमुत्पद्यते संस्थाप्यते वा तादृशस्थाने 'दमणयवच्चंसि वा' दमनकवर्चसि वा दमनकोनाम-वनस्पतिविशेषस्तस्य वर्चसि स्थाने 'मरुयंवच्चंसि वा' मरुकवर्चसि वा, मरुकोऽपि वनस्पतिविशेषस्तस्य पुजस्थाने 'उच्चारपासवणं परिहवेइ' उच्चारप्रस्रवणं परिष्ठापयति, 'परिहवेंतं वा साइज्जई' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ।। सू० ८०॥
सूत्रम्-जे भिक्खू असोगवणंसि वा सत्तवण्णवर्णसि वा चपयसि वा चूयवणंसि वा अण्णयरेसु वा तहप्पगारेसु पत्तोवेएसु पुष्फोवेएसु फलोवेएसु छाओवेएसु उच्चारपासवणं परिहवेइ परिहवेंतं वा साइज्जइ ॥
छाया-यो भिक्षुः अशोकवने वा सप्तपर्णवने वा चम्पकवने वा चूतवने वा अन्यतरेषु वा तथाप्रकारेषु पत्रोपेतेपु पुष्पोपेतेपु फलोपेतेषु छायोपेतेषु उच्चारप्रन्न वणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू०८१॥
चूर्णी-"जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः 'असोगवणं सि वा' अशोकवने वा-लोकप्रसिद्धोऽशोकवृक्षस्तस्य वनं, तत्र 'सत्तवण्णवणंसि वा' सप्तपर्णवने वा तत्र-सप्तपर्णो नाम-वृक्षविशेपस्तस्य वनं, तत्र, 'चंपगवणंसि वा' चम्पकवने, 'चूयवणंसि वा' आम्रवने वा 'अण्णयरेसु वा तहप्पगारेसु' अन्यतरेषु वा तथाप्रकारेषु अशोकादिवृक्षभिन्नाऽशोकादिसमानेषु वृक्षसमुदायेषु । कथम्भूतेषु तेषु ? तत्राह-'पत्तोवेएम' इत्यादि । 'पत्तोवेएम' पत्रोपेतेषु-पत्रयुक्तेषु वृक्षषु 'पुष्फोवेएस' पुष्पोपेतेषु पुष्पसहितेषु 'फलोवेएसु' फलोपेतेषु 'छाओवेएम छायोपेतेषु पत्र-पुष्प-फल-च्छाया-समन्वितवृक्षसमूहेपु इत्यर्थः उच्चारपासवणं 'परिद्ववेई' उच्चारप्रनवणं परिष्टापयति, तथा-'परिहवेंतं वा साइज्जई' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तमागू भवति, तस्याज्ञाभङ्गादयो दोषा भवन्ति ।। सू० ८१॥