________________
चूर्णिभाष्यावी उ० ३ सू०७६-७९ अस्थानेपु-उच्चारादिरिष्ठापननिषेधः १०९ दाहे वा-क्षारकरणस्थाने, यत्र स्थानविशेपे क्षारद्रव्य (साजी खार-आदि) करणार्थ क्षारजातीयकाष्ठं दह्यते तादृशस्थानं क्षारदाह इति कथ्यते, तत्र, 'गायदाहसि वा' गात्रदाहे वा ज्वरादिरोगाक्रान्तानां पालितपशूनां गवादीनां तत्तदङ्गावयवस्तप्तलोहशलाकया दंदह्यते तस्मिन् गात्रदाहस्थाने 'तुसदाहंसि वा' तुपदाहे वा-यत्र स्थले कुम्भकारादयः नूतनघटादीनां पाकक्रियायां तुषादिकं दहन्ति तस्मिन् तुषदाहस्थाने 'भुसदाहंसि वा बुसदाहे वा 'कडगरो चुसं क्लीवे, घान्यत्वचि पुमांस्तुषः" इत्यमरः “भुसा" इति लोकप्रसिद्धस्य दाहस्थाने । एतादृशदाहस्थाने यदि 'उच्चारपासवणं परिट्ठवेइ' उच्चारप्रस्रवणं परिष्ठापयति, तथा-'परिवेंतं वा साइज्जई' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ७५॥
सूत्रम्-जे भिक्खू सेयाययणंसि वा पंकसि वा पणगंसि वा उच्चारपासवणं परिहवेइ परिहवेतं वा साइज्जइ ॥ सू० ७६॥
- छाया-यो भिक्षुः स्वेदायतने घा, पके वा पनके वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ।। सू० ७६॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'सेयाययणंसि वा, स्वेदायतने वा-सचित्तजलमिश्रितकर्दमवहुलस्थाने 'पंकसि वा' पके वा सामान्यपके 'पणगंसि वा' पनके वा-जलप्रपातजनितशेवाल ('नीलन-फुलन') इति लोकप्रसिद्धस्थाने वा 'उच्चारपासवणं परिहवेई' उच्चारप्रनवणं परिष्ठापयति, 'परिद्ववेतं वा साइज्जई' परिष्ठापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ।। सू० ७६॥
सूत्रम्-जे भिक्खू अहिणवियासु गोलेहणियासु वा अहिणवियास मट्टियाखाणीसु वा परि जमाणियासु वा अपरिभुजमाणियासु वा उच्चारपासवणं परिठ्ठवेइ परिहवेतं व साइज्जइ ॥ सू० ७७॥
छाया--यो भिक्षुः अभिनविकासु गोलेहनिकासु वा अभिनविकासु मृत्तिकाखानिपु वा परिभुज्यमानासु वा अपरिभुज्यमानासु वा उच्चारप्रेनवणं परिष्ठापयति परिण्ठापयन्तं वा स्वदते ।। सू० ७७॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अहिणवियामु' अभिनविकासु-नव निर्मितासु 'गोलेहणियामु' गोलेहनिकासु-यत्र गवामवलेहनाथै लवणादिक्षारद्रव्यं स्थाप्यते यदवलिह्य गावो रुचिपूर्वकं पानीयं पिबन्ति तृणादिकं वा खादन्ति तादृशानि स्थानानि गोलेहनिकाः कथ्यन्ते. तासु गोनिमित्तं नवनिर्मितासु गोहनिकासु 'अहिणवियासु वा मट्टियाखाणीसु' नवीनासु वा मृत्तिकाखानिपु यस्मात्-मृत्तिका निष्कास्यते तादृशस्थानेषु 'परिझुंजमाणियामु वा' अपरिभुंज