________________
निशीथसने वा, अभिहतमाहृत्य दीयमानं प्रतिपेध्य तामेव अनुवाऽनुवर्त्य परिवेश्य-परिवेष्टयप्रजल्प्य प्रजल्प्य अवभाण्याऽवभाष्य याचते याचमानं वा स्वदते ॥ सू० ११॥
चूर्णी-नवमं दशमं च सूत्रं याच्यमानपुरुषविषयकमेकत्व-पृथक्त्वेन व्याख्यातम् , संप्रतिएकादशसूत्रं याच्यमानस्त्रीविषयकं व्याख्यातुमाह-'जे भिक्खू' इत्यादि स्पष्टम् ॥ सू० ११ ॥
एकादशं सूत्रमेकां स्त्रीमाश्रित्य याचनाविषयकं व्याख्याय तदनु-अनेकस्त्रीविषयकं द्वादशें सूत्रमाह – 'जे भिक्खू' इत्यादि ।
सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अण्णउत्थिणीहि वा गारत्थिणाहि वा असणं वा पाणं वा खाइमं वा साइनं वा अभिहडं आहटु दिज्जमाणं पडिसेहेत्ताताओ अणुवत्तिय-अणुवत्तिय परिवेढिय-परिवढिय परिजविय-परिजविय ओभासिय-आसासिय जायइ जायंत वा साइज्जइ ।। सू० १२॥
छाया -यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पावसथेपु वा अन्ययूथिर्काभिर्वा गार्हस्थिकीभिर्वा अशनं वा पानं वा खाद्यं वा स्वाद्य वा अभिहतमाहृत्य दीयमानं प्रतिषेध्य ता पवाऽनुवाऽनुवयं परिवेष्टय-परिवेप्टय, परिजल्प्य परिजल्प्य अवभाष्याऽचमाण्य याचते याचमान वा स्वदते ॥ सू० १२ ॥
चूर्णी-'जे भिक्खू इत्यादि । याच्यमानाऽनेकस्त्रीविषयक सूत्रम्-'जे भिक्खू' यो भिक्षुः, इत्यादि स्पष्टम् । एतच्च सूत्रं याच्यमानाऽनेकस्त्रीविषयकमित्येतावता-एकादशसूत्रादेकस्त्रीविषयकाद्भिद्यते ॥ सू० १२ ॥
सूत्रम्-जे भिक्खू गाहावइकुलं पिंडवायपडियाए प्रविढे प्रड़ियाइक्खिए समाणे दोच्चपि तमेव कुलं अणुप्पं विसइ अणुप्पविसंतं वा साइज्जइ।। .. छाया-यो भिक्षुः गाथापतिकुलं पिण्डपातप्रतिक्षया प्रविष्टः प्रत्याख्यातः सन् द्वितीयमपि (वार) तमेव कुलं अनुप्रविशति अनुप्रविशन्तं वा स्वदते ।। सू० १३ ॥ ,
चूर्णी-'जे भिक्खू' इत्यादि । जे भिक्खू' यो भिक्षुः गाहावइंकुलं' गाथापतिकुलम् गृहिणां गृहम् 'पिंडवायपडियाए' पिंडपातप्रतिज्ञया अशन-पानादिग्रहणेच्छया 'पबिट्टे' प्रविष्टः कोऽपि साधुः केपाञ्चित्-श्रावकादीनां गृहे भिक्षा ग्रहीतुं गतः परन्तु 'पडियाइक्खिए समाणे प्रत्याख्यातः-निषिद्धः सन्-साधुमिक्षाथै गृहस्थगृहे प्रविशति किन्तु गृहस्वामी निषेधति "नाऽत्रागन्तव्यम्" इत्थं प्रतिषेधितोऽपि सन् साधुः 'दोच्चपि तमेव कुलं अणुप्पविसई द्वितीयमपि वारं-गृहस्वामिन आज्ञामन्तरेणाऽनुप्रविशति, तद्गृहे पुनः प्रवेश करोति । तथा 'अशुपविसंत वा सोइज्जई अनुप्रविशन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥१३॥