________________
पूर्णिभाग्यावधरिः उ०३ सू० १४-१५ संखडितचतुर्थादिगृहान्तरतश्च भिक्षाग्रहणानि० ८५ भाष्यम्-गाहावइकुलं भिक्खू, पच्चक्खाओ गओ जइ ।
पुणो पवेसमेत्तेणं, आणाभंगाइयं भजे ॥ छाया-गाथापतिकलं भिक्षुः प्रत्याख्यातो गतो यदि।
पुनः प्रवेशमात्रेण-आशाभङ्गादिकं भजेत् ॥ अवचूरिः-'गाहावइकुलं' इत्यादि । कश्चिद्भिक्षुः भिक्षाप्राप्त्यर्थ गृहपतिकुलं गतः, तत्र प्रविशन्नेव गृहपतिना प्रत्याख्यातः "नास्ति मद्गृहे भिक्षावकाशः' एवंप्रकारेण , निराकृतोऽपि यदि पुनर्गृहपतेराज्ञां विना तस्मिन् गृहे प्रविशति । ततः प्रवेशमात्रेणाज्ञाभङ्गादिकं दोषं. भजते तस्मात्तत्कुलं न प्रविशेदननुज्ञात इति ॥ सू० १३ ॥
सूत्रम्-जे भिक्खू संखडिपलोयणाए असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहतं वा साइज्जइ ॥ सू० १४ ॥
___ छाया-यो भिक्षुः संखडिप्रलोकनया अशनं वा पानं वा खाद्य वा स्वाद्य वा प्रतिगृहाति, प्रतिगृह्यन्तं वा स्वंदते ॥ सू० १४॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'संखडिपलोयणाए' संखडिप्रलोकनया, संखडीति देशी शब्दः तदर्थस्तु यत्र स्थानेऽनेकजनानां भोजनं निष्पाद्यते, तादृशस्थानं संखडी । यत्राऽनेकपृथिव्यादिषड्जीवनिकायनीवानां प्राणाः खण्डिताः विराधिता भवन्ति सा संखडीति व्युत्पत्तेः-"जिमनवार" इति भाषायाम् तत्र-संखडीस्थले गत्वा-'असणं वा' अशनं वा, पाणं वा' पानं वा, 'खाइमं वा खाद्यं वा, साइमं वा' स्वाद्य वा, 'पडिग्गाहेई' प्रतिगृह्णाति 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति ।। सू० १४ ॥
सूत्रम्-जे भिक्खू गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठे समाणे परं तिघरंतराओ असणं वा पाणं वा खाइमं वा साइमं वा अभिहडं आहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू०१५॥
. छाया-यो भिक्षः गाथापतिकुल पिंडपातप्रतिशया अनुप्रविष्टः सन् परं त्रिगृहान्तरात् अशनं वा पानं वा स्वाद्य वा स्वाद्य वा अभिहृतमाहृत्य दीयमानं प्रतिगृहाति प्रतिगृहन्तं वा स्वदते ॥ सू० १५॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'गाहावइकुलं' गाथापतिकुलम् . ‘पिंडवायपडियाए' पिण्डपातप्रतिज्ञया तत्र-पिण्डोऽशनादिकं, तस्य गृहिणा दीयमानाहारस्य पाने ;