________________
निशीथसूत्रे
पेऽवभाष्य याचनाकरणे यो गमः-प्रकारः प्रोक्तः स एव गमः सप्तमेऽष्टमे च सूत्रेऽन्ययूथिकादित्रीणां एकत्वपृथक्त्वत इत्येकवचन-बहुवचनत एकस्याः स्त्रियाः, बहीना स्त्रीणां वा पुरतोऽवभाष्य याचनाकरणे स एव प्रकारो ज्ञातव्यः । पंचम-पष्ठं च सूत्रं पुंविषयकम् , सप्तममष्टमं तु स्त्रीविषयकम् । एतावानेव भेदः । तत्रापि यथा पञ्चमसूत्रमेकपुरुषविषयकम् , यथा वा-पष्टसूत्रं बहुपुरुषविषयकम् तथैव-सप्तमसूत्रमेकरत्रीविषयकम् , अष्टमसूत्रं त्वनेकस्त्रीविषयकम् । अन्यत्सर्वं समानम् ।। सू० ८॥
सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अण्णउत्थिएण वा गारथिएण वा असणं वा पाणं वा खाइमं वा साइमं वा अभिहडं आह१ दिज्जमाणं पडिसेहेत्ता तमेव अणुवत्तिय-अणुवत्तिय परिवेढिय परिवेढिय-परिजविय-परिजविय ओभासिय-ओभासिय जायइ, जायंतं वा साइज्जइ ॥ सू ९॥
छाया-यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेपु वा-अन्ययूथिकेन वा गार्हस्थिकेन वा, अशनं वा पान वा खाद्य वा स्वाचं वा अभिहतम् (पुर आनीतम्) आहत्य दीयमानं प्रतिपेध्य, तमेवाऽनुवांनुवर्त्य परि वेष्टय परिवेष्टय परिजलप्य-परिजल्प्य, अवभाज्याञ्चभाज्य याचते, याचमानं वा स्वदते ।।
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारेसु वा' आगन्त्रागारेषु 'आरामागारेसु वा आरामागारेषु 'गाहावइकुलेस वा' गाथापतिकुलेषु 'परियावहेसु वा' पर्यावसथेषु वा परिव्राजकावसथेषु 'अण्णउत्थिएण वा' अन्ययथिकेन वा-परतीर्थिकेन 'गारथिएण वा' गार्हस्थिकेन वा, अशनं वा पानं वा खाद्य वा स्वाय वा 'अभिहर्ड' अभिढतम् साध्वयं संमुखमानीतं, तत् 'आइटु' आहृत्य-गृहीत्वा 'दिज्जमाण' दीयमानमशनादिकम् 'पडिसेहेत्ता' प्रतिषिध्य, पूर्वमभिमुखीभूय ददतं निषिध्य-ग्रहणार्थ निषेधं कृत्वा पुनः-तमेव 'अणुवत्तिय-अणुवत्तिय' तमेव दातारमनुवानुवर्त्य पञ्च-सप्त-पदगमनानन्तरमनुवर्तन कृत्वा पृष्ठतो गत्वा 'परिवेढिय-परिवेढिय' परिवेष्टय-परिवेष्टय पुरतः पृष्ठतः पार्श्वतो वा स्थित्वा । 'परिजविय-परिजविय' परिजल्प्य परिजल्प्य त्वया मदर्थमिदमशनादिकमानीतम् परिश्रमस्तव निरर्थको मा भवतु तवाऽशनादिकं प्रहिण्यामी'-येवंप्रकारेणोक्त्वा . 'ओभासिय-ओभासिय' अवभाष्याऽवभाष्य 'जायई' याचते, 'जायतं वा साइज्जई' याचमानं वा एवंविधमन्य स्वदतेऽनुमोदते स प्रायश्चित्तभार भवतीति ।। सू० ९ ॥ ., भाष्यम्-आहटु दिज्जमाण जं, पडिसेहिय पुन्वो ।
पच्छा तं अणुवहित्ता, जायए दोसमावहे ॥