________________
चूर्णिभाष्यावचूरिः उ० ३ सू० ६-७ प्रत्यागतान्ययूथिका दिकमव भाष्ययाचननिषेधः ८१
छाया -यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा अन्ययूथिकं वा गार्हस्थिकं वा कौतूहलप्रतिज्ञया प्रत्यागतं सन्तं अशनं वा पानं वा खाद्य वा स्वाद्यं वा अवभाष्याऽवभाष्य याचते, याचमानं वा स्वदते || सू०५ || चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारेसु वा' आगन्त्रागारेषु वा 'आरामागारे वा' आरामागारेषु वा 'गाहाबइकुलेसु वा' गाथापतिकुलेषु वा 'परियावस वा' पर्यावसथेषु वा 'अण्णउत्थियं वा अन्ययूथिक - दर्शनाऽन्तरीयं यं कमप्येकम्, ‘गारत्थियं वा' गार्हस्थिकं गृहस्थं वा 'को उहलपडियाए पडियागयं समाणं' कौतूहलप्रतिज्ञया प्रत्यागतं सन्तम् कौतूहलं क्रीडादिकं धर्मपृच्छा वा, तत्कौतूहलप्रतिज्ञया प्रत्यागतमागतं सन्तं तिष्ठन्तम् 'अण्णउत्थियं' अन्ययूथिकम् 'गारत्थियं वा' गार्हस्थिकं वा उपेत्य तत्स - काशात्- 'असणं वा' अशनं वा, 'पाणं वा' पानं वा खाइमं वा' खाद्यं वा, 'साइमं वा ' स्वार्थं वा यदि- 'ओभासिय - ओभासिय' अवभाष्याऽवभाष्य उच्चैरुच्चार्य्यं तिष्ठन्तमागन्तुकं परतीर्थिकं श्रावकं वा 'भो भोः मह्यं साघवेऽन्नपानादिकं देहि' इत्थम् 'जायइ' याचते, 'जायंत वा साइज्जइ' याचमानं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ५ ॥
अत्राह भाष्यकारः
भाष्यम् - आगंतुगाइ गेहेस, कोउगह उवद्वियं ।
-
ओभासिय जायमाणो, समणो, दोसभा हवे ॥
छाया - आगन्तुकादिगेहेषु कौतुकार्थमुपस्थितम् । अवभाष्य याचमानः श्रमणो दोषभाग् भवेत् ॥
t
"
अवचूरिः – 'आगंतुगाइ०' इत्यादि । यो भिक्षुः आगन्तुकादिगेहेषु - आरामागारेषु वा गाथापतिगेहेषु वा कौतुकार्थं साधोरागमनात् पूर्वमागत्य समुपस्थितं वर्त्तमानं परतीर्थिकं गृहस्थं वा एकमपि आभाष्योच्चस्वरेण शब्दं कृत्वा - अशन - पान खाद्य - स्वाद्यादिकं याचते स श्रमणः दोषभाग् भवेत् । कथमेते परतीर्थिकाः गृहस्था वा समागत्य स्थिता भवन्ति ? इति चेत् शृणु-केचित्--यथाभावेन, केचन कौतुकेन, केचन साधूनां दर्शनार्थम् केचन - स्वकीय संशयनिराकरणार्थम् केचन श्रावकधर्म श्रमणधर्म वा श्रोतुम् आगच्छन्ति । एषु समुपस्थितेषु - एकतमादपि - अवभाष्याऽशनादिकं याचते तस्यैते भद्रप्रान्तदोषा भवन्ति । तत्र भद्रदोषः - स्वस्य भद्रत्वेन उद्गमादिदोषदुष्टाहारग्रहणरूपः । प्रान्तदोषः अदत्तादानविषयक लोकगर्हारूप इति । तत्र यदि अवभाष्य कृतेपि याचने न लभ्यते तदा साघोरपमानं भवति । कथयन्ति लोका:क्षुद्राः साधवो न लभन्ते । अदत्ते दातुरपमानं कृपणोऽयमिति ॥ सू० ५ ॥
,
११