SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम कुलं वा योजयति, उपकुलं वा योजयति, कुलोपकुलं वा योजयति, कुलं युञ्जन् धनिष्ठा नक्षत्र युनक्ति, उपकुलं युञ्जन् श्रवण नक्षत्रं युनक्ति, कुलोपकुलं युञ्जन् अभिजिन्नक्षत्रं युनक्ति, श्राविष्ठी पुर्णिमां खलु कुलं वा युनक्ति, यावत् कुलोपकुलं युनक्ति, कुलेन वा युक्ता उपकुलेन वा युक्ता कुलोपकुलेन वा युक्ता श्राषिष्ठी पूर्णिमा युक्तेति वक्तव्यं स्यात् । प्रौष्ठपदी खलु भदन्त ! पूर्णिशं कि कुलं युनक्ति ३ पृच्छा' गौतम ! कुलं वा उपकुलं वा कुलोपकुलं वा युननि, कुलं युञ्जद् उत्तरमाद्रपदा नक्षत्रं युनक्ति उपकुलं युञ्जत् पूर्वभाद्रपद नक्षत्रं युनक्ति, कुलोपकुलं युञ्जत् शतभिपयनक्षत्रं युनक्ति, प्रौष्टपदी खलु पूर्णिमां कुलं वा युनक्ति, यावत् कुलोपकुलं वा युनक्ति, कुलेन वा युक्ता यावत् कुलोपकुलेन वा युक्ता प्रौष्ठपदी पूर्णिमासी युक्तेति वक्तव्यं स्यात् । आश्विनी खलु भदन्त ! पृच्छा, गौतम ! कुलं वा युनक्ति, उपकुलं वा युनक्ति नो लमते कुलोपकुलम् कुलं युञ्जन् अशिनी नक्षत्र युनक्ति उपकुलं युञ्जत् रेवती नक्षत्रं युनक्ति, आश्वयुनी पूर्णिमा कुलं वा युनक्ति, उपकुलं वा युनरित, कुलेन वा युक्ता उपकुलेन वा युक्ता आशयुजीपूर्णिमा युक्तेति वक्तव्यं स्यात् । कार्तिकी खलु भवन्त ! पूर्णिमां किं कुलं ३ पृच्छा, गौतम ! कुलं वा युनक्ति, उपकुलं या युनक्ति नो कुलोरकुलं युनक्ति कुलं युञ्जत् कृत्तिकानक्षत्रं युनक्ति, उपकुलं युञ्जन भरणी कार्तिकी. खलु याबद् वक्तव्यं स्यात्, मार्गशीप खलु भदन्त ! पूर्णिमा यावद् वक्तव्य स्यात् । एवं शेपिका अपि यावदावाढीम् पौषी ज्येष्ठा मूली च कुलं वा युनक्ति कुलोपकुलं वा, शेषिकाणां कुलं वा उपकुछ वा कुलो कुलंग भण्यते । श्राविष्ठी खल भदन्त ! अमावास्यां कति नक्षाणि युवन्ति ? गौतम ! द्वे नक्षत्रे युक्तः तबमा-अश्लेपा च मघा च । पोष्ठपदी खलु भदन्त ! अमावास्या कति नक्षत्राणि युञ्जन्ति ? गौतम ! द्वे पूर्वा फाल्गुनी उत्तरा फाल्गुनी च । आशयुनी खलु भदन्त ! द्वे हस्तश्चित्रा च, कार्तिकी खलु द्वे स्वामी विशाखा च, मार्गशीर्षी खलु त्रीणि अनुराधाज्येष्ठा मूलश्च पोष्ठी खल्ल द्वे पूर्वा पाढा उत्तरापाढा च, माधी खलु त्रीणि अभिजित् श्रवणो धनिष्ठा च, फाल्गुनी खल त्रीणि शतभिषा पूर्वभाद्रपदा उत्तरभाद्रपदा, चैत्री खलु द्वे रेवती अश्विनी च, वैशाखी खल्ल द्वे भरणी कृत्तिका च, ज्येष्ठामुली खलु द्वे रोहिणी मृगशिरश्च, आपाढी खलु त्रीणि आर्द्रा पुनर्वसु पुष्यः । श्राविष्ठी खलु भदन्त ! अमावास्यां किं कुलं युनक्ति, उपकुलं युनक्तिकुलोपकुलं युनक्ति ? गौतम ! कुलं वा युनक्ति उपकुलं वा युनक्ति, नो लभते कुलोपकुलम् कुलं युञ्जत् मपानक्षत्रं युनक्ति, उपकुलं वा युञ्जत् अश्लेषा नक्षत्रं युनक्ति श्राविष्ठिं खल्लु अमावास्या कुलं वा युनक्ति उपकुलं वा युनक्ति, कुठेन वा युक्का उपकुलेन वा युक्ता श्राविष्ठी अमावास्या युक्तति वक्तव्यं स्यात् । प्रोष्ठपदी खलु भदन्त ! अमावास्यां तदेव द्वे युक्तः उपकुलं वा युक्तः कुलं युञ्जत् उत्तराफाल्गुनी नक्षत्रं युनक्ति, उपकुलं युञ्जत् उत्तराफाल्गुनी नक्षत्रं युनक्ति प्रौष्टपदी खल्लु अमावाश्यां यावद्वक्तव्यं स्यात् । मार्गशीपी खलु तदेव, कुलं मूलं नक्षत्रं पुनक्ति, उपकुलं युञ्जत ज्येष्ठा नक्षत्रं युनक्ति, कुलोपलं युञ्जत् अझुराधा यावत् ५७
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy