SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ६०८ जम्बूद्वीपप्राप्तिको पत्यं कारयन् पालयन् महताहतगीतवादिततन्त्रीतलतालत्रुटितघनमृदङ्गपटुपटहवादितरवेण दीव्यान् भोगभोगान् भुञ्जानो विहरति । ततः खलु तस्य शक्रस्य देवेन्द्रस्य देवराज्ञः आसनं चलति, ततः खलु स शक्रो यावत् आसनं चलितं पश्यति, दृष्ट्वा अवधि प्रयुक्ते प्रयुज्य भग वन्तं तीर्थङ्करम् अवधिना आभोगयति आभोग्य हृष्टतुष्टचित्त आनन्दितः प्रीतिमनाः परमसौमनस्थितः हपंत्रशविसर्पद् हृदयः धाराहतकदम्बकुसुम रोमाञ्चितोच्छ्रितरोमकूपः विकसितवरकमलनयनवानः प्रचलितवरकट कत्रुटिककेयूरमुकुटकुण्डलः हारविराजमानवक्षस्कः प्रालम्बप्रलम्बमानघोलद् भूपणधरः ससंभ्रम त्वरितं चपलं सुरेन्द्रः सिंहासनादभ्युत्तिष्ठति, अभ्युस्थाय पादपीठात् प्रत्यवरोहति प्रत्यवरुह्य वैड्यंवरिष्ठरिष्टाञ्जननिपुणोचितमिसिमिसिन्त मणिरत्नमण्डिते पादुके अवमुञ्चति अमुच्य एकशाटिकम् उत्तरासङ्गं करोति कृत्वा अञ्जलि मुकुलिताग्रहस्तः तीर्थङ्कराभिमुखः सप्ताप्टपदानि अनुगच्छति अनुगत्य वामं जानुम् आकुञ्चयति आकुच्य दक्षिणं जानुं धरणीतले निहत्य त्रिकृत्वः मूर्दानं धरणीतले निवेशयति, निवेश्य ईपत् प्रत्युन्नमति, प्रत्युग्नमित्वा कटकत्रुटिफस्तम्भिनौ भुजौ संहरति संहृत्य करतल परिगृहीत दशनखं शिरसावर्त मस्तके अञ्जलिं कृत्वा एवमवादी-नमोऽस्तु खलु अरिहन्तुणां भगवताम् आदिकराणां तीर्थकराणां स्वयं संयुद्धानां पुरुषोत्तमानां पुरुषसिंहानां पुरुषवरपुण्डरीकाणां पुरुषवरगन्धहस्तिनां लोकोत्तमाना लोकनाथानां लोकहितानाम् लोकप्रदीपानां लोकप्रद्योतकराणाम् अभयदायकानाम् चक्षुर्दायकानां मार्गदकायानां शरणदायकानां जीवदायकानां वोधिदायकानां धर्मदायकानां धर्मदेशकानां धर्मनायकानां धर्मसारथिनां धर्मवरचातुरन्तचक्रवर्तिनों दीया त्राणं शरणं गतिश्च प्रविष्टा अप्रतिहतज्ञानदर्शनधराणां विवृत्तछानां जिना. नाम् जावकाना तीर्णानां तारकानां बुद्धानां वोधकानां मुक्तानां मोचकानां सर्वज्ञानां सर्वदर्शिनां शिवमचलमरुनमनन्तमक्षयमव्यावाधमपुनरावृत्ति सिद्धिगतिनामधेयं स्थानं संप्राप्तानां नमो जिनानां जितभयानाम् नमोऽस्तु खलु भगवतस्तीर्थकरस्य आदिकरस्य यावत् संप्राप्नुकामस्य वन्दे खलु भगवन्तं तत्र गतम् इइगतः पश्यतु मां भगवान् तत्रगतः । इगतम् इतिकृत्वा चन्दते नमस्यति वन्दित्वा नमस्यित्वा सिंहासनवरे पौरस्त्याभिमुखः संनिषण्णः ततः, खलु तस्य शक्रस्य देवेन्द्रस्य देवराजस्य अयमेतावद्रूपो यावत् साल्पः समुदपद्यत उत्पन्नः खलु-भो जम्बूदीपे द्वीपे भगवांस्तीर्थकरः तस्माजी मेतत्-अतीतप्रत्युत्पन्नानागतानां शक्राणां देवेन्द्राणाम् देवराजानां तीर्थकराणी जन्ममहिमानं कर्तुं तद्गच्छामि खलु अहमपि भगवतस्तीर्थकस्य जन्ममहिमानं करोमीतिकृत्वा एवं संप्रेक्षते संप्रेक्ष्य हरिणैगमे । पीतिनामानं पदात्यनीकाधिपतिं देवं शब्दयति शब्दायित्वा एवमयादीत क्षिप्रमेव भो देवानांप्रिय ! सभायां सुधर्मायां मेघौघरसितां गंभीरमधुरतरशब्दाम योजनपरिमण्डलां सुघोषा मुस्वरां घण्टां त्रिः कृत्वः उल्लालयन् उल्लालयन् महता महता शब्देन उद्घोषयन् उद्घोषयन् एवं वदत आज्ञापयति भोः शक्रो देवेन्द्रो देवराजः गच्छति खलु भो शक्रो देवेन्द्रो देवराजः जम्बूद्वीपे द्वीपे भगवतस्तीर्थकरस्य जन्ममहिमानं कर्तुं तत् यूयमपि खलु देवानुप्रिया
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy