________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ४ इन्द्रकृत्यावसरनिरूपणम्
६०९ सर्वर्या सर्वधुत्या सर्ववलेन सर्वसमुदायेन सर्वादरेण सर्वविभूत्या सर्वविभूषया सर्वसंभ्रमेण सर्वनाटकैः सौंपरोधैः सर्वपुष्पगन्धमाल्यालङ्कारविभूपया सर्वादिव्यत्रुटितशब्दसन्निनादेन महत्या ऋचा यावत् रवेण निजकपरिवारसंपरिवृताः सकानि स्वकानि यानविमानवाहनानि दुरूढाः सन्त: अकालपरिहीणं शक्रस्य यावत् अन्तिके प्रादुर्भवत । ततः खलुस हरिणेगमेषी देवः पादात्यनीधिपतिः शक्रेण३ यावत् एवम् उक्तः सन् हृष्टतुष्ट यावत् एवं 'देवा ! इति आज्ञायाः विनयेन वचनं प्रतिशृणोति, प्रतिश्रुत्य शक्रस्य देवेन्द्रस्य देवराजस्य अन्तिकात् प्रतिनिष्क्रागति प्रतिनिष्क्रम्य यत्रैव सभायां सुधर्मायां मेघोघरसिंतगम्भीरमधु रतरशब्दां योजनपरिमण्डलां भुघोपां घण्टा तत्रैव उपागच्छति, उपागत्य तां मेघौवरसित गम्भोरमधुरतरशब्दां योजनपरिमण्डलां सुघोषां घंटा त्रिः कृत्वः उल्लालयति । ___ ततः खलु तस्यां मेघौधरसितगम्भीर० मधुरतरशब्दायां योजनपरिमण्डलायां मुघोपायां घण्टायां त्रिः कृत्वः उल्लालितायां सत्यां सौ नौ कल्पे अन्येपु एकोनेषु द्वात्रिंशद्विमानावासशतसहस्त्रेषु अन्यानि एकोनानि द्वात्रिंशत् घण्टाशतसहस्त्राणि यमकसमकं कणकणारावं कर्त प्रवृत्तानि अभवत् इति। ततः खलु सौधर्मः कल्पा प्राप्तादविपाननिष्कुटापतितशब्दसमुत्थितघण्टाप्रतिश्रुतशतसहस्त्रसंकुलो जातश्चाप्यभूत् इति । ततः खलु तेषां सं.धर्मकल्पवासिनां बहूनां वैमानिकानां देवानाञ्च देवीनां च एकान्तरतिप्रसननित्यप्रमत्तविषयसुखमूर्छितानाम् सुस्वरघण्टारसितविपुलबोलपूरितचपलपरिवोधने कृते सति घोषणकुतूहलदत्तकणैकाग्रचित्तोपयुक्तमानसानां सपदात्यतीकाधिपति देवः तस्मिन् घण्टारवे निशान्त प्रतिशान्ते सति तत्र तत्र तस्मिन् तस्मिन् देशे महता महता शब्देन उद्घोषयन् उद्घोष"न् एवम् अवादीदिति । हन्त ! श्रृण्वन्तु भवन्तो बहवः सौधर्मकल्पवासिनो वैमानिकदेवाः देयश्च सौधर्मकल्पपतेरिदं वचनं हितमुखायम्-आज्ञापयति खल भो शक्रः तदेव यावत् अन्तिकं प्रादुर्भवत इति, ततश्च ते देवा देव्यश्च एतमर्थ श्रुत्वा हृष्टतुष्ट यावत् हृदया! अप्येककाः दन्दनप्रत्ययम् एवं पूजन प्रत्यम् सत्कारप्रत्ययम् रान्मानप्रत्ययम् जिनभक्तिरागेण अप्पेककाः तत् जीतमेतत् एवमादि इत्यादिकं कृत्वा यावत् प्रादुर्भवन्ति इति । ततः खलु सः शक्रः देवेन्द्रो देवराजः तान् वैमानिकान् देवान् देवींच अकालरिहीनं चेव अन्तिकं प्रादुर्भवतः प्रादुर्भवन्तीश्च पश्यति दृष्ट्वा हृष्टः पालकं नाम आभियोगिकं देवं शब्दयति शब्दयित्वा एधमयादीत् क्षिप्रमेव भो ! देवानुप्रियाः अनेकस्तम्भशतसन्निविष्टं लीलास्थितशालभञ्जिकाकलितम् ईहामृगऋपभतुरगनरमकरविहगव्यालककिन्नररुरुशरभचामरकुञ्जरवनलतापक्षलताभक्तिचित्रम् स्तम्भोद्गतवज्रवेदिकापरिगतांभिरामम् विद्याधरयमलयुगल यन्त्रयुक्तमित्र अर्चिसहसमालिनीकम् रूपकसहस्वकलितम् भास्यमानं वाभास्यमानं चक्षुलोचनलेश्यं सुखस्पर्श सश्रीकरूपं घण्टावलिकमधुरमनोहर सदृशम् शुभं कान्तं दर्शनीयम् मिसिमिसेन्तमणिरत्नपण्टिकाजोलपरिक्षिप्तम् योजन सहस्रविस्तीर्ण पञ्चशतोच्च शीघं त्वरितं जवन निर्वाहि दिव्यम् यानविमानं विकुर्वस्व विकुर्य एताम् आज्ञप्तिका प्रत्यर्पय ॥ सू०४ ।।
ज ७७