SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू. ३६ मेरुपर्वतस्य वर्णनम् પરંતુ तराणि योजनशतानि त्रींच एकादशभागान् योजनस्य परिक्षेपेण धरणितले एकत्रिशतं योजन सहस्राणि षट् च त्रयोविंशानि योजनशतानि परिक्षेपेण उपरितले त्रीणि योजनसहत्राणि एकं च द्वापष्टं योजनशतं किञ्चिद्विशेपाधिकं परिक्षेपेण मूले विस्तीर्णः मध्ये संक्षिप्तः - उपरि तनुकः गोपुच्छ संस्थानसंस्थितः सर्व रत्नमयः अच्छः श्लक्ष्ण इति । स खलु एकया पद्मवरवेदिकया एकेन च चनपण्डेन सर्वतः समन्तात् संपरिक्षितः, वर्णक इति, मन्दरे खलु भदन्त ! पर्वते कति वनानि प्रज्ञसानि ?, गौतम ! चत्वारि वनानि प्रज्ञप्तानि, तद्यथा - भद्रशा (सा) लवनं ९ नन्दनवनं २ सौमनसवनं ३ पण्डकवनम् ४ क्व खलु भदन्त ! मन्दरपर्वते भद्रशालवनं नाम वनं प्रज्ञप्तम् ?, गौतम ! धरणितले अन खलु मन्दरे पर्वते भद्रशालवनं नाम वनं प्रज्ञप्तं प्राचीनप्रतीचीनायतम् उदीर्णदक्षिणविस्तीर्ण सौमनसविद्युत्प्रभगन्धमादनमाल्यवद्भिर्वक्षस्कारपर्वतैः शीताशीतोदाभ्यां च महानदीभ्याम् अष्टभागप्रविभक्तं मन्दरस्य पर्वतस्य पौरस्त्यपश्चिमेन द्वाविंशति द्वाविंशतिं योजनसहस्राणि आयामेन उत्तरदक्षिणेन अर्द्धतृतीयानि अर्द्धतृतीचामि योजनशतानि विष्कम्भेणेति, तत् खलु एकया पद्मवरवेदिकया एकेन वनपण्डेन सर्वतः समन्तात् संपरिक्षिप्तं द्वयोरपि वर्णको भवणितव्यः कृष्णः कृष्णावभासः यावद देवा आसते शेरते, मन्दरस्य खल पर्वतस्य पौरस्त्येन भद्रशाल'वनं पञ्चशतं योजनानि अवगाह्य अत्र खलु महदेकं सिद्धायतनं प्रज्ञप्तं पञ्चाशतं योजनानि 'आयामेन पञ्चविंशति योजनानि विष्कम्भेण पट्त्रिंशतं योजनानि ऊर्ध्वमुच्चत्वेन अनेक-स्तम्भशतसन्निविष्टं वर्णकः, तस्य खलु सिद्धायतनस्य त्रिदिशि त्रीणि द्वाराणि प्रज्ञप्तानि, तानि खलु द्वाराणि अष्ट योजनानि ऊर्ध्वमुच्चत्वेन चत्वारि योजनानि विष्कम्भेण तावदेव च प्रवेशेन श्वेताः वरकनकस्तूपिकाकाः यावद् वनमाला: भूमिभागथ भणितव्यः, तस्य खलु बहुमध्यदेश भागे अत्र खलु महत्येका मणिपीठिका प्रज्ञप्ता अष्ट योजनानि आयामविष्कम्भेण चत्वारि योजनानि बाहल्येन सर्वरत्नमयी अच्छा, तस्याः खलु मणिपीठिकाया उपरि देवच्छन्दोऽष्टयोजनानि आयामविष्कम्भेण सातिरेकाणि अष्टयोजनानि ऊर्ध्वमुच्चत्वेन यावत् जनप्रतिमावर्णकः देवच्छन्दकस्य यावद् धृपकडुच्छुकाणामिति । मन्दरस्य खलु पर्व - तस्य दक्षिणेन भद्रशालवनं पञ्चाशतं (योजनानि) एवं चतुर्दिश्यपि मन्दरस्य भद्रशालवने चत्वारि सिद्धायतनानि भणितव्यानि मन्दरस्य खलु पर्वतस्य उत्तरपौरस्त्येन भद्रशालवनं पञ्चाशतं योजनानि अवगाह्य अत्र खलु चतस्रो नन्दापुष्करिण्यः प्रज्ञप्ताः तद्यथा - पद्मा १ पद्मप्रभा २ चैव कुमुदा ३ कुमुदप्रभा ४, साः खलु पुष्करिण्यः पञ्चाशतं योजनानि आया- मेन पञ्चविंशति योजनानि विष्कम्भेण दशयोजनानि उद्देधेन वर्णक: वेदिका वनपण्डयो भणितव्यः, चतुर्दिशि तोरणाः यावत् तासां खलु पुष्करिणीनां बहुमध्यदेशभागे अत्र खलु महानेक ईशानस्य देवेन्द्रस्य देवराजस्य प्रासादावतंसकः प्रज्ञप्तः पञ्चयोजनशतानि ऊर्ध्वमुच्चत्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेण, अभ्युद्गतोच्छ्रित एवं सपरिवारः प्रासादावतंसको भणितव्यः, मन्दरस्य खल एवं दक्षिणपौरस्त्येन पुष्करिण्यः उत्पलगुल्मा " ०
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy