________________
..
........
भगवतीस्त्र
=== उत्पधन्ते यावद्वैमानिकदेवेभ्योऽपि उत्पद्यन्ते । यदि भवनवासिदेवेभ्य उत्पद्यन्ते किमसुरकुमारभवनवासिदेवेभ्य उत्पद्यन्ते यावत् स्तनितकुमारभवनवासिदेवेभ्य उत्पधन्ते गौतम ! असुरकुमारभवनवासिदेवेभ्य उत्पद्यन्ते यावत् स्तनित. कुमारभवनवासिदेवेभ्य उत्पधन्ते । असुरकुमारः खलु भदन्त! यो भव्यः पृथिवी कायिकेपूतत्तुम् । स खलु भदन्त ! कियत्कालस्थितिकेपूत्पधेत ? गौतम ! जघन्येनान्तर्मुहूर्त्तस्थितिकेषु उत्कर्षेण द्वाविंशतिवर्षसहस्र. स्थिति केषूत्पद्येत १ । ते खल्ल भदन्त ! जीवाः पृच्छा, गौतम ! जघन्येन एको वा द्वौ वा त्रयो वा उत्कर्षेण संख्याता वा असंख्याता वा उत्पद्यन्ते २ । तेषां खल्लु भदन्त ! जीवानां शरीराणि किं संहननवन्ति प्रज्ञप्तानि ? गौतम | षण्णी संहननानाम् असंहननवन्ति, यावत्परिणमन्ति ३ । तेषां खलु भदन्त ! जीवानां कियन्महती शरीरावगाहना १ गौतम ! द्विविधा प्रज्ञप्ता तद्यथा भवधारणीया उत्तरवैक्रयकीच, वत्र खलु या सा भवधारणीया सा जघन्येनाङ्गुलस्यासंख्येय भागम् उत्कर्षेण सप्त रत्नयः। तत्र खलु या सा उत्तरचक्रयकी सा जघन्येन अंगुलस्य संख्येयभागम् उत्कर्षेण योजनशतसहस्रम् ४ । तेषां खलु भदन्त ! जीवानां घरीराणि किं संस्थितानि प्रज्ञप्तानि ? गौतम ! द्विविधानि प्रज्ञप्तानि तद्यथा भवधारणीयानि च उत्तरवैक्रियाणि च । तत्र खलु यानि भवधारणीयानि तानि समचतुरस्रसंस्थानसंस्थितानि प्रज्ञप्लानि । तत्र खल यानि उत्तरवैक्रियाणि तानि नानासंस्थानसंस्थितानि प्रज्ञप्तानि ५। लेश्याश्चतस्रः ६ । दृष्टि त्रिविधाऽपि ७। त्रीणि ज्ञग्नानि नियमतः, त्रीणि अज्ञानानि भजनया ८ । योगस्त्रिविधोऽपि ९। उपयोगो द्विविधोऽपि १० । चतस्रः संज्ञाः ११ । चत्वारः कषायाः १२। पञ्चेन्द्रियाणि १३ । पञ्च समुद्घाताः १४ । वेदना द्विविधा अपि १५। स्त्रीवेदका अपि पुरुषवेदका अपि नो नपुंसकवेदकाः १६ । स्थितिजघन्येन दशवर्षसहस्राणि, उत्कर्षेण सातिरेकं सागरोपमम् १७ । अध्यवसाया असंख्येयाः प्रशस्ता अपि अप्रशस्वा अपि १८ । अनुबन्धो यया स्थितिः १९। भवादेशेन द्वे भवग्रहणे कालादेशेन जघन्येन दशवर्षसहस्राणि अन्तर्मुहर्ताभ्यधिकानि उस्कर्पण सातिरेके सागरोपमम् द्वाविंशत्या चर्प सहस्त्रैरभ्यधिकम् एतावन्तं यावत्कुर्यात् २० । एवं नवाऽपि गमा नेतव्याः, नवरं मध्यमकेषु पश्चिमकेपु त्रिषु गमकेषु असुरकुमाराणां स्थितिविशेपो ज्ञातव्या, शेषा औधिकी एव लब्धि: कायसंवेधं च जानीयात् सर्वत्र द्वे भवग्रहणे यावत् नवमगमके कालादेशेन जघन्येन सातिरेक सागरोपमम् द्वाविंशत्या वर्षसहस्ररभ्यधिकम् । उत्कर्षेणापि सातिरेक सागरोपों द्वाविंशत्या पर्पसहस्रैरभ्यधिकम् एतावन्तं यावत्कुर्यात् ९ ॥सू०५।।