________________
प्रमेयचन्द्रिका टीका श०१९ उ०३ सू०१ लेश्यावान पृथ्वीकायिकादिनीपनि० २९३ ज्ञानिनः अज्ञानिना, गौतम ! नो ज्ञानिनः अज्ञानिनः नियमतो द्वे अज्ञाने तद्यथा मत्यज्ञानं च श्रुताज्ञानं च ४ । ते खलु भदन्त ! जीवाः किं मनोयोगिनो वचोयोगिनः काययोगिनः ? गौतम ! नो मनोयोगिनो नो वचोयोगिनः काययोगिनः ५। ते खलु भदन्त । जीवाः कि साकारोपयुक्ता अनाकारोपयुक्ताः ? गौतम ! साकारोपयुक्ता अपि अनाकारोपयुक्ता अपि ६ । ते खलु भदन्त ! जीवाः किमाहारमाहरन्ति ? गौतम ! द्रव्यतः खलु अनन्तपदेशिकानि द्रव्याणि एवं यथा प्रज्ञापनायाः प्रथमे आहारोद्देशके यावत् सर्वात्मतया आहारमाहरन्ति ते खलु भदन्त ! जीवा यमाहरन्ति तं चिन्वन्ति यं नो आहरन्ति तं नो चिन्वन्ति चीण वा तत् अपद्रवति परिसर्पति वा ? हन्त गौतम । ते खलु जीवायमाहरन्ति तं चिन्वन्ति यं नो यावत् परिसर्पति वा तेषां खलु भदन्त ! जीवानाम एवं संज्ञा इति वा प्रज्ञा इति वा मन इति वा वच इति वा 'वयं खलु आहारमाहराम:' नायमर्थः समर्थः आहरन्ति पुनस्ते । तेषां खलु जीवानाम् एवं सज्ञा इति वा यावद् वच इति वा वयं खलु इष्टानिष्टान स्पर्शान् प्रतिसंवेदयामः ? नायमर्थः समर्थः प्रतिसंवेदयन्ति पुनस्ते ७ । ते खलु भदन्त ! जीवाः कि प्राणातिपाते उपाख्यायन्ते मृषावादे अदत्तादाने यावन्मिथ्यादर्शनशल्ये उपाख्यायन्ते ? गौतम ! प्राणातिपातेऽपि उपाख्यायन्ते यावत् मिथ्यादर्शनशल्येऽपि उपाख्यायन्ते, येषामपि खलु जीवानां ते जीवा एवमाख्यायन्ते तेषामपि खलु जीवानां किं नो विज्ञातं नानात्वम् ८ । ते खलु भदन्त ! जीवाः कुत उत्पद्यन्ते कि नरयिकेभ्य उत्पद्यन्ते ? एवं यथा व्युत्क्रान्तौ पृथिवीकायिकानामुपपात तथा भणि न्यः ९ । वेषां खलु मदन्त ! जीवानां फियत्काल स्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन अन्तर्मुहुर्तम् उत्कृष्टतो द्वाविंशतिवर्षसहस्राणि १०॥ तेषां खलु भदन्त ! जीवानां कति समुद्घाताः प्रज्ञप्ता: गौतम ! त्रयः समुदघाताः प्रज्ञप्ताः तद्यथा वेदनासमुदघातः कषायसमुद्घातो मारणान्तिकसमुदघालः। ते खल्लू भदन्त ! जीवाः मारणान्तिकसमुद्घातेन कि समवहता नियन्ते असमबहता नियन्ते गौतम ! समवहता अपि नियन्ते असमवहता अपि नियन्ते ११ । ते खल भदन्त ! जीवाः अनन्तरमुदत्य कुत्र गच्छन्ति कुत्रोत्पधन्ते, एवमुद्वर्तनाय व्युत्क्रान्ती १२ । स्याद्भदन्त ! यावत् चत्वारः पञ्चाफ़ायिका एकतः साधारणशरीरं वध्नन्ति, एकतः साधारणशरीरं बद्ध्वा ततः पश्चात् आहरन्ति एवं य: पृथिवीकायिकानां गमः स एव भणितव्यो यावदुद्वतन्ते नारं स्थितिः सप्तवर्षसहस्राणि उस्कृष्टतः शेष तदेव १३ । स्याद् भदन्त ! यावत् चत्वारः पञ्च तेज: कायिका एवमेव नवरमुपपातः स्थिविरुद्वर्तना च यथा प्रज्ञापनायाम् शेषं तदेव १२ । वायुकायिकानामेयमेव नानात्वम् , नवरं चत्वारः समुद्घाताः १२ । स्याद