________________
भगवतोसूत्रे/
દ
छाया - सन्ति खलु भदन्त ! ते देवा ये अनन्तान् कर्मा शान् जघन्येन एके वा त्रिभिर्वा उत्कृष्टेन पञ्चभि व वर्षशतैः क्षपयन्ति ? हंत सन्ति । खलु भदन्त! ते देवा ये अनन्तान् कमींशान् जघन्येन एकेन वा द्वाभ्यां वा त्रिि उत्कृष्टतः पञ्चभिः वर्षसहस्रैः क्षपयन्ति ? हंत संति । सन्ति खलु भदन्त ! ते हैं ये अनन्तान् कर्माशान् जघन्येन एकेन वा द्वाभ्यां वा त्रिभिर्वा उत्कृष्टतः पञ्चभि वर्ष ' शतसहस्रैः क्षपयन्ति ? हन्त, सन्ति । कतरे खलु भदन्त ! ते देवा ये अनन्तान् कर्माशान् जघन्येन एकेन वा यावत् पञ्चभिर्वर्षशतैः क्षपयन्ति ? कतरे खलु भदन्त ! ते देवा यावत् पञ्चभिर्वर्षशतसहस्रैः क्षपयन्ति ? कतरे खलु भदन्त ! ते देवा ये यावत् पञ्चभिर्वर्प शतसहस्रैः क्षपयन्ति ? गौतम । चानव्यन्तरा देवाः अनन्तान कमशान एकेन वर्षशतेन क्षपयन्ति ? असुरेन्द्रवर्जिता भवनवासिनो देवा अनन्तान् कर्मशान् द्वाभ्यां वर्षशताभ्यां क्षपयन्ति, असुरकुमाराः देवा अनन्तान् कर्माशान् त्रिभिर्वर्षशतैः क्षपयन्ति । ग्रहनक्षत्रतारारूपा ज्योतिका देवा अनन्तान् कर्मशान चतुर्विशतैः क्षपयन्ति, चन्द्ररूपाः ज्योति केन्द्राः ज्योतिराजानः अनन्तान् कर्माशान् पञ्चभिः वर्षशतैः क्षपयन्ति । सौधर्मेशानका देवाः अनन्तान् कर्मा शान् एकेन वर्ष सहस्रेग यावत् क्षपयन्ति । सनत्कुमारमाहेन्द्रका देवाः अनन्तान् कर्माशान् द्वाभ्यां वर्षसहस्राभ्यां क्षपयन्ति, एवमेतेनाभिलापेन ब्रह्मलोकान्तका देवाः अनन्तान् कर्माशान् त्रिभिर्वर्षसहस्रैः क्षपयन्ति । महाशुक्रसहस्रारका देवाः अनन्तान् कर्माशान् चतुर्भिर्वर्षसहस्रैः क्षपयन्ति । आनतप्राणताऽऽरणाच्युतका देवाः अनन्तान् कर्मा शान् पञ्चभिर्वर्षसहस्रः क्षपयन्ति । अधोग्रैवेयका देवाः अनन्तान् कर्मा शान् एकेन वर्प शतसहस्रेग क्षपयन्ति, मध्यमग्रैवेयका देवाः अनन्तान् कर्मा शान् द्वाभ्यां वर्षशतसहस्राभ्यां क्षपयन्ति, उपरितनयैवेयकाः देवाः अनन्तान् कम शान् त्रिभिर्वर्षशतसहस्त्रेः क्षपयन्ति, विजयवैजयन्तजयन्ता - पराजितका देवाः अनन्तान् कर्मा ज्ञान चतुर्भिर्वर्षसहस्रैः क्षपयन्ति, सर्वार्थसिद्धका देवाः अनन्तान् कर्मा शान, पञ्चभि वर्ष शतसहस्रैः क्षपयन्ति । एतेनार्थे गौतम ! ते देवा ये अनन्तान् कर्मा शान् जघन्येन एकेन वा द्वाभ्यां वा त्रिभिर्वा उत्कृर्षेण पञ्चभिर्वर्षशतैः क्षपयन्ति । एतेनार्थेन गौतम ! ते देवाः यावत् पञ्चभिः वर्षसहस्रैः क्षपयन्ति । अनेन अर्थेन गौतम । ते देवाः यावत् पञ्चभिर्वर्षशतसहस्रैः क्षपयन्ति, तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ म्र० ७ ॥
॥ अष्टादशशते सप्तमोद्देशकः समाप्तः ॥