________________
प्रमैयचन्द्रिका टीका श०१८ उ०७ सू०३ मंद्रुकश्रमणोपासकचरितनिरूपणम् १०९ स मद्रुका श्रमणोपासकः तान अन्ययूथिकानेवमवादीत् अस्ति खलु आयुष्मन्तः । वायुकायो वाति ? हन्त ! अस्ति, यूयं खलु आयुष्मन्तः ! वायुकायस्य वहतो रूपं पश्यत ? नायमर्थ समर्थः सन्ति खलु आयुष्मन्तः घाणसहगताः पुद्गलाः ? हन्त! सन्ति । यूयं खलु आयुष्मन्तः घ्राणसहगतानां पुद्गलानां रूपं पश्यथ ? नायमर्थ: समर्थः। अस्ति खलु आयुष्मन्तः ! अरणिसहगतोऽग्निकायः? हन्त ? अस्ति, यूयं खलु आयुष्मन्तः ? अरणिसहगतस्याग्निकायस्य रूपं पथ ? नायमर्थः समर्थः । सन्ति खलु आयुष्मन्तः ? समुद्रस्य पारगतानि रूपाणि ? हन्त ! सन्ति, यूयं खलु आयुष्मन्तः ? समुद्रस्य पारगतानि रूपाणि पश्यथ ? नायमर्थः समर्थः । सन्ति खलु आयुष्मन्तः ? देवलोकगतानि रूपाणि ? हन्त ! सन्ति, यूयं खलु आयुष्मन्तः ? देवलोकगतानि रूपाणि पश्यत ? नायमर्थः समर्थः । एवमेव आयुमन्तः । अहं वा यूयं वा अन्यो वा छद्मस्थो यदि यो यत् न जानाति, न पश्यति तत् सर्व न भवति? एवं युष्माकं मते सुवहुको लोको न भविष्यति ? इति कृत्वा तान् खलु अन्ययूथिकान एवं प्रतिहन्ति एवं प्रतिहत्य यत्रेव गुणशिलकं चैत्यं यत्रैव श्रमणो भगवान् महावीरः तत्रैव उपागच्छति, उपागत्य श्रमणं भगवन्तं महावीर पञ्चविधेन अभिगमेन यावत् पर्युपास्ते । मद्रुकः इति श्रमणो भगवान् महावीरो मद्रुकं श्रमणोपासकमेवम् अवादीत्-सुष्टु खलु मद्रुक ! त्वं तान् अन्ययथिकान एवमवादीः, साधु खलु मद्रुक ! त्वं तान् अन्ययूथिकान् एवमवादीत् यत खलु मद्रुक! अर्थ वा हेतुं वा प्रश्न वा व्याकरणं वा अज्ञातमम अश्रुतममतमविज्ञातं बहुजनमध्ये आख्याति प्ररूपयति यावत् उपदर्शयति से खल्लु अर्हतामाशानायां वर्तते, अर्हस्मज्ञप्तस्य धर्मस्य आशातनायां वर्तते, केवलिनामाशातनायां वर्तते, केवलिमज्ञप्तस्य धर्मस्याशातनायां वर्तते, तत सुष्ठ खल वं मद्रुक ! तान् अन्ययूथिकान् एवमवादी, साधु खल् त्वमेवमयादीः । ततः खलु मद्रुकः श्रमणोपासकः श्रमणेन भगवता महावीरेण एवमुक्तः सन् हृष्टतुष्टः श्रमणं भगवन्तं महावीर वन्दते नमस्पति वन्दित्या नमस्थित्वा नात्यासन्ने यावत पर्युपास्ते । ततः खल्ल श्रमणो भगवान महावीरो मद्रुकाय श्रमणोपासकाय, तस्यै व यावत परिपत् मतिगता । ततः खल मद्रुका श्रमणोपासकः श्रमणस्य भगवतो महावीरस्य यावत् निशम्य हृष्टतुष्टः प्रश्नानि व्याकरणानि पृच्छति पृष्ट्वा अर्थान पर्याददाति । पर्यादाय उत्थया उत्तिष्ठति, उत्थया उत्थाय श्रमणं भगवन्तं महावीर वन्दते नमस्यति वन्दित्वा नमस्यित्वा यावत्मतिगतः। भदन्त इति भगवान गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा नमस्यित्वा एवमवादीत प्रभुः खलु भदन्त ! मनुकः श्रमणोपासको देवानुप्रियाणामन्तिके यावत् प्रवजितुम ? नायमर्थः समर्थः। एवं यथैव शङ्ख तथैवारुणाभे यावत् अन्तं करिष्यतीति ॥सू०३।।