________________
प्रमेयचन्द्रिका टीका श०१७ उ०४ सू०२ आत्मकृतादिदुःखकारणनिरूपणम् ४७१
पूर्व क्रिया मोक्ता, सा च क्रिया कर्म, कर्मच दुःखकारणत्वात् दुःखमिति दुःखनिरूपणायाऽऽह-'जीवाणं भंते !' इत्यादि ।
मूलम्-जीवाणं किं अत्तकडे दुक्खे परकडे दुक्खे तदुभयकडे दुःखे ? गोयमा ! अत्तकडे दुक्खे नो परकडे दुक्खे नो तदुभयकडे दुक्खे एवं जाव वैमाणियाणं। जीवा गं भंते ! किं अत्तकडं दुक्खं वेदति परकडं दुक्खं वेदोंत तदुभयकडं दुक्खं वेदेति? गोयमा? अत्तकडं दुक्खं वेदति नो परकडं दुक्खं वेदति नो तदुभयकडं दुक्खं वेदति एवं जाव वेमाणियाणं। जीवाणं भंते! अत्तकडा वेयणा परकडा वेयणा पुच्छा गोयमा! अत्तकडा वेयणा नो परकडा वेयणा नो तदुभयकडा वेयणा एवं जाव वेमाणियाणं। जीवाणं भंते! किं अत्तकडं वेयणं वेदेति परकडं वेयणं वेदेति तदुभयकडं वेयणं वेदोंत गोयमा! जीवा अत्तकडं वेयणं वेएंति नो परकडं नो तदुभयकडं एवं जाव वेमाणियाणं सेवं भंते ! लेवं भंते ! ति ॥सू०२॥
छाया-जीवानां भदन्त ! किम् आत्मकृतं दुःखम् परकृतं दुःखं तदुभय. कृतम् दुःखम् ? गौतम ! आत्मकृतं दुःखम् नो परकृतं दुःखं, नो तदुभयकृतं दुःखम् एवं यावद् वैमानिकानाम् । जीवाः खलु भदन्त । किम् आत्मकृतं दुःखं वेदयन्ति परकृतं दुःख वेदयन्ति तदुभयकृतं दुःखं वेदयन्ति ? गौतम ! आत्मकृतं दुःख वेदयन्ति नो परकृतं दुःखं वेदयन्ति नो तदुभयकृतं दुःखं वेदयन्ति एवं यावद् वैमानिकानास् । जीवानां भदन्त ! आत्मकता वेदना परकृता वेदना पृच्छा गौतम ! आत्मकृता वेदना नो परकृता वेदना नो तदुभयकृता वेदना एवं यावद् वैमानिकानाम् । जीवाः खलु भदन्त ! किम् आत्यकृतां वेदनां वेदयन्ति परकृतां वेदनां वेदयन्ति तदुभयकृतां वेदना वेदयन्ति ? गौतम जीवा आत्मकृतां वेदना वेदयन्ति नो परकृताम् नो तदुभयकृताम् एवं यावद वैमानिकानाम् तदेवं भदन्त ! तदेवं भदन्त ! इति ॥सू० २॥