________________
सुधाडीका स्था०७ सू० १४ सप्तस्वर निरूपणम्
1
सप्त स्वराः कुतः सम्भवन्ति १, गेयस्य का भवन्ति योनयः ९ । कति समया उच्छ्वासाः ?, कति वा गेयस्य आकाराः १ ॥ १९ ॥ सप्तस्वरा नाभितो भवन्ति, गीतं च रुदितयोनिकम् | पादसमा उच्चासाः, त्रयश्च गीतस्य आकाराः ॥ २० ॥ आदिमृदुम् आरभमाणाः, समुद्वहन्तश्च मध्यकारे | अवसाने क्षपयःतः त्रयश्च गेयस्य आकाराः ॥ २१ ॥ पड् दोपान अष्ट गुगान् त्रीणि च वृत्तानि द्वे च भणिती । ज्ञास्यति स गास्यति, सुशिक्षितो रङ्गमध्ये ॥ २२ ॥ भीतं द्रुतं ह्रस्व गायन, मा न गाय उत्तालम् । काकस्वरमनुनासंच, भवन्ति गेयस्य षड् दोषाः ॥ २३ ॥ पूर्ण रक्तं च अलङ्कृतं च, व्यक्तं तथा अविघुष्टम् । मधुरं समं सुललितम् अष्टगुणा भवन्ति गेयस्य ॥ २४ ॥ उरः कण्ठ शिरः प्रशस्तं च गीयते मृदुरिभितपदवद्धम् । समतालमत्युत्क्षेप, सप्तस्वरसीभरं गीतम् ॥ २५ ॥ हेतुयुक्तमलङ्कृतम् 1
4
निर्दोषं सारवच्च, उपनीत सोपचारं च, मितं मधुरमेव च ॥ २६ ॥ सममर्द्धसमं चैत्र, सर्वत्रविषमं च यत् ।
यो वृत्त प्रकाराश्चतुर्थं नोपलभ्यते ॥ २७ ॥ संस्कृताः प्राकृताञ्चैव द्विविधा भणितय आख्याताः । स्वरमण्डले गीयन्ते, प्रशस्ता ऋषिभाषिताः ॥ २८ ॥ कीदृशी गायति मधुरं ? कीदृशी गायति खरं च रूक्षं च १ । hreat गायति चतुरं ?, कीदृशी विलम्बं ? द्रुतं कीदृशी १ ॥ २९ ॥ विस्वरंपुनः कीदृशी ? ॥
श्यामा गायति मधुरं, काली गायति खरं च रूक्षं च । गौरी गायति चतुरं, काणा विलम्बं द्रुत च अन्धाः || ३० विवरं पुनः पिङ्गला ||
तन्त्रीसमं तालसमं, पादसमं लयसमं ग्रहसमं च । निःश्वसितोच्छ्वसितसमं, संचारसमं स्वराः सप्त ॥ ३१ ॥ सप्तस्वराश्च त्रयो ग्रामा', मूर्च्छना एकविंशतिः । तानाश्र एकोनपञ्चाशत् समाप्तं स्वरमण्डलम् ॥ ३२ ॥ इति स्वरमण्डलं समाप्तम् ॥ सू० १४ ॥
65olha