________________
६०८
स्थानीय
सप्त स्वरा अजीवनिश्रिताः प्रज्ञप्ताः तद्यथा
पड्ज रौति मृदङ्गो, गोमुखी ऋषभं स्वरम् । शद्धो नदति गन्धारं, मध्यमं पुनझल्लरी ॥६॥ चतुश्चरणप्रतिष्ठाना, गोधिका पञ्चम स्वरम् ।
आडम्बरो धैवतिकं, महाभेरी च सप्तमम् ॥ ७॥ एतेषां खलु सप्तस्वराणां समस्वरलक्षणानि प्रज्ञप्तानि, तद्यथा
पड्जेन लभते वृत्ति, कृतं च न विनश्यति । गावो मित्राणि च पुत्राश्व, नारीणां चैव वल्लभः ॥८॥ अपमेण तु ऐश्वर्य, सैनापत्त्यं धनानि च ।। वस्त्रं गन्धमलङ्कारं स्त्रियः शयनानि च ॥९॥ गान्धारे गीतयुक्तिज्ञाः, वर्यवृत्तयः कलाधिकाः । भवन्ति कृतिनः माज्ञाः, ये अन्ये शास्त्रपारगाः ॥ १०॥ मध्यमस्वरसम्पन्नाः, भवन्ति सुखजीविनः । खादति पिवति ददाति, मध्यम स्वरमाश्रितः ॥ ११ ॥ पञ्चमस्वरसम्पन्ना भवन्ति पृथिवी पतयः। शूराः संग्रहकर्तारः, अनेकगणनायकाः ॥ १२ ॥ धैवतस्वरसम्पन्ना भवन्ति कलहप्रियाः । शकनिका वागुरिकाः शौकरिका मत्स्यवन्धाश्च ॥ १३ ॥ चाण्डाला मौष्टिकाः सेयाः, ये अन्ये पापकर्माणः ।
गोघातकाश्च ये चौराः, निपादं स्वरमाश्रिताः ॥ १४ ॥ एतेषां सप्तानां स्वराणां त्रयो ग्रामाः प्रज्ञप्ताः, तद्यथा-पङजग्रामः मध्यमग्रामः गान्धारग्रामः पजग्रामस्य खलु ससमूच्छनाः प्रज्ञप्ताः, तद्यथा• भगी कौरवीया, हरिश्च रजनी च सारकान्ता च ।
पष्ठी च सारसी नाम, शुद्धपड्जा च सप्तमी ॥१५॥ मध्यमग्रामस्य खलु सप्त मूछनाः प्रज्ञप्ताः, तद्यथा
उत्तरसन्दा रजनी, उत्तरा उत्तरासमा।
समवक्रान्ता च सौवीरा अभीरुभवति सप्तमी ॥ १६॥ गान्धारग्रामस्य खलु सप्त मूछनाः प्रज्ञप्ताः, तद्यथा
नन्दी च क्षुद्रिका पूरिमा च चतुर्थीव शुद्धगान्धारा। उत्तरगान्धारापि च, पञ्चमिका भवति मृच्छी तु ॥ १७ ॥ सुण्ठुतरायामा सा, पष्ठी नियमशस्तु ज्ञातव्या। अथ उत्तरायता कोटिमा च सा सप्तमी मृच्छी ॥ १८॥