SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका (व्याख्या) नयो मूलतो द्रव्यास्तिकपर्यायास्तिकाभ्यां द्विप्रकारो भवति । तत्र द्रव्यार्थिकस्य दश भेदाः सन्ति । तानाह १) कर्मोपाधिनिरपेक्षरूपः शुद्धद्रव्यार्थिकः । भवस्थजीवो विमलात्मभावेनाष्टरुचकप्रदेशापेक्षया सिद्धसदृशः। २) गौणभावेनोत्पादव्ययसत्ताग्राहकः सत्ताद्रव्यार्थिकोऽस्ति द्रव्यनित्यवदिति । ३) तथा भिन्नभावकल्पनानादृत एकद्रव्यार्थिकः । यथा द्रव्यं निजगुणपर्यायस्वभावेभ्योऽभिन्नभावेन भवति। ४) तथा कर्मोपाधिसापेक्षभावोऽशुद्धद्रव्यार्थिकः । कषायादिकर्ममलभावचैतन्यवदिति। ५) उत्पादव्ययसापेक्षः शुद्ध(नित्य) द्रव्यार्थिकः । उत्पादव्ययध्रौव्यरूपं द्रव्यमेकस्मिन् समयवत्। ६) तथा भेदकल्पनायुक्तो निजनिजद्रव्यादिगुणग्राहकः सद्द्द्रव्यार्थिकः । दर्शनज्ञानादिगुणस्थितचैतन्यवदिति। ८) कथनादिस्वद्रव्यादिकृत ( ? ) ग्राहको वक्तव्यद्रव्यार्थिकः । यथा निजद्रव्यक्षेत्रकालभावचतुष्टयापेक्षया द्रव्यमस्ति । ९) अन्वयद्रव्यार्थिको यथा गुणपर्यायस्वभावं द्रव्यम्। तथा सर्वद्रव्यगतमूलसत्ता एका एव भवति । परद्रव्यादि' अग्राहकद्रव्यार्थिकः परद्रव्यचतुष्टयापेक्षया द्रव्याभाववत्। १०) गुणगुणिद्रव्यैक्यभावेन परमभावग्राहको द्रव्यार्थिकः । यथा ज्ञानमाश्रित्य ज्ञानस्वरूपश्चिद्धनोऽस्ति। अत्रानेकस्वभावपुञ्जान्तरगताज्ज्ञानं परमस्वभावो गृहीतः। इति द्रव्यार्थिकाः॥१४॥ |पर्यायार्थिकनयस्य षड्भेदाः ] [१८] [मूल] पर्यायार्थिकभेदाश्च पूर्वोक्ता द्रव्यकादयः । वानादिसादितो नित्यौ नित्यशुद्धेतरौ भवेत्॥१५॥ [मूल] नित्याशुद्धेतरौ ज्ञेयौ भवन्ति षड्विधानि च । इमेऽपि भेदाः सिद्धान्ते वदन्ति पूर्वसूरयः॥१६॥ (व्याख्या) अथ पर्यायार्थिकनयस्य षड्भेदानाह १) अनादिनित्यः पर्यायार्थिकः पुद्गलनिचयमेर्वादिवत्। २) द्वितीयः सादिनित्यपर्यायार्थिकः श्रेयोवासस्थ सिद्धपर्यायवत्। ३) गौणत्वेनोत्पादव्ययग्राहकः स्वभावोऽनित्यशुद्धपर्यायार्थिकः । यथा समयं समयं प्रति पर्याया उत्पादविनाशिनः । ४) सत्तासापेक्षस्वभावो नित्यशुद्धपर्यायार्थिको यथैकस्मिन्समये उत्पादादित्रयात्मकः पर्यायः। ५) कर्मोपाधिनिरपेक्षस्वभावो नित्याशुद्धपर्यायार्थिकः । यथा सिद्धपर्यायसदृशाः शुद्धा भवस्थसत्त्वपर्यायाः। ६) कर्मोपाधिसापेक्षस्वभावोऽनित्याशुद्धपर्यायार्थिको भवोत्पत्तिमरणवत्। इति पर्यायार्थिकभेदाः॥१३॥१४॥१५॥१६॥ १. यहां पर परद्रविणादि की जगह परद्रव्यादि यह पाठ समुचित लगता है। २. यहां पर श्रेयावासा यह पाठ है वह अशुद्ध प्रतीत होता है श्रेयोवासस्थ पाठ हो सकता है श्रेयोवासका मतलब होता है - सिद्धशिला या मोक्ष
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy